एके प्रस्थिता इति ।
साङ्ख्या इत्यर्थः ।
आत्मस्वरूपचैतन्यस्य अहंप्रत्यये, नाहमित्यात्मप्रतिभासे व्यभिचाराभावात् । करोमि जानामि भूजे इतिभूञ्ज इत्याकारणामात्मस्वरूपत्वे सत्वेऽहमित्यात्मना व्यभिचाराभावः स्यात् । व्यभिचारादेवात्मस्वरूपत्वं नास्तीत्याह -
करोमि जानामीति ।
अहं करोमीत्यहंप्रत्ययेन कर्तृत्वे प्रतीयमाने जानामीत्याद्याकारो न प्रतीयते । अहं जानामीति अहं भुञ्ज इत्याद्याकारप्रतीतिकाले करोमीत्याकारो न प्रतीयते । अतो न सर्वदा अहंप्रत्ययेऽनुषङ्ग इत्यर्थः ।
नायं तद्विषय इति ।
अहंप्रत्ययः कर्तृत्वादिविषयो न भवतीत्यर्थः ।
तदुल्लेखविकल इति ।
करोमीत्याद्याकार प्रतिभासविकल इत्यर्थः ।
अहं दुःखीति दुःखान्वयित्वं भोक्तृत्वमित्यङ्गीकृत्य तस्याप्यहमित्यात्मप्रतिभासव्यभिचारादात्मस्वरूपत्वाभावं शङ्कते -
ननु भोक्तापि तर्हीतिभाक्ताप्रीति इति ।
तदुल्लेखाभावादिति ।
अहं सुखी दुःखीति सर्वदा अहंप्रत्ययेन प्रतिभासाभावादित्यर्थः ।
भोक्तृत्वमिति चेतनत्वं विवक्ष्यते । तस्याहमित्यात्मप्रतिभासे सति व्यभिचाराभावादात्मस्वरूपमेवेत्याह -
नैतदेवमिति ।
कथं चेतनत्वमेव भोक्तृत्वमित्याशङ्क्य सर्वस्य दृश्यतया तदर्थत्वात् । सर्वशेषिचेतन एव भोक्तेत्याह -
तदर्थत्वात् ।
सर्वस्येति ।
तस्मादपि देहादिव्यतिरिक्तादन्यः सदा सिद्ध ईश्वर इत्युत्तरेण सम्बन्धः ।
विविधविन्यासरूपकार्यत्वाद्विशिष्टविज्ञानवत्कर्तृकमितीश्वरसद्भावे वैशेषिकानुमानं दर्शयति -
शरीशरीराणामितिरिणामिति ।
साङ्ख्ययोगानुमानं दर्शयति -
सातिशयानामिति ।
परिणामानामुपलब्धेति ।
आकाशगतनिरतिशयपरिणामेनाविनाभावो दृष्ट इत्यर्थः । काष्ठाप्राप्तिरसर्वविषयत्वेऽपि सम्भवतीति सर्वविषयमिति वेत्युक्तम् । ज्ञानादिशक्तयः क्वचित् सर्वविषयज्ञानादिशक्त्यविनाभूता इत्यर्थः ।
ब्रह्मात्मवस्तुनोऽहमिति प्रतिपन्नसामान्यरूपस्य प्रत्यगात्मनो विशेषतयाहंविशेषयाहमितिप्रत्ययपर्यवसानयोग्यवदवभासमानदेहादीनां विप्रतिपत्तिस्कन्धतया प्रदर्शनावसरे कथमहंप्रत्ययपर्यवसानभूमितया प्रत्यगात्मनो विशेषत्वेनानवभासमानस्येश्वरस्य विप्रतिपत्तिस्कन्धत्वप्रदर्शनमित्याशङ्कते -
नन्वहमिति ।
ब्रह्मणो विप्रतिपत्त्यालम्बनत्वात् तद्ब्रह्म प्रत्यगात्माव्यतिरिक्तं च व्यतिरिक्तं चेति विप्रतिपत्तिं दर्शयितुं व्यतिरिक्तेश्वरपक्षप्रदर्शनं युज्यत इत्याह -
उच्यत इति ।
ब्रह्मणि विप्रतिपत्तिप्रदर्शनं चेत् प्रक्रान्तं किमिति, तर्ह्यात्मनि विप्रतिपत्तिः प्रदर्श्यत इति तत्राह -
अहं प्रत्ययविषयविप्रतिपत्त्यापीति ।
प्रणाड्या व्यवधानेनेत्यर्थः । प्रत्यगात्मा सर्वज्ञत्वादिगुणकत्वात् ब्रह्मणोऽन्योऽनन्यो वेति विप्रतिपत्तिं दर्शयितुं तद्व्यतिरिक्तः ईश्वरः साधितः, विप्रतिपत्तिस्कन्धत्वात् , अतो व्यवधानेन अहंप्रत्ययविषयविप्रतिपत्तिप्रदर्शनमेव एतदिति वा परिहारग्रन्थस्याभिप्रायः ।