आत्मा स भोक्तुरिति ।
स ईश्वरो भोक्तुः स्वरूपमित्यर्थः ।
ब्रह्मेति कैश्चित् प्रतिपन्न इतिस ईश्वरो भोक्तुः स्वरूपमित्यधिकं दृश्यते ।
स भोक्ता ब्रह्मेति कैश्चित् प्रतिपन्न इत्यर्थः ।
संसारिणः कथं असंसारिणैकत्वमिति तत्राह -
तस्याहंप्रत्ययसिद्ध इति ।
एवमसाविति ।
ईश्वर इत्यर्थः । ब्रह्मेति प्रत्यगात्मेति प्रतिपन्ना इत्यर्थः ।
मनोरथमात्रेणेति ।
प्रमाणयुक्तिमूला चेत् विप्रतिपत्तिर्निराकार्या स्यात् नान्यथेति भावः ।
युक्तिवाक्याश्रयान्त्यपक्षावलम्बिनो वेदान्तिनः, इतरे त्वर्वाचीनपक्षावलम्बिनो युक्त्याभासवाक्याभासाश्रया इति व्यवस्थाभिधानपरतया युक्तिवाक्येत्यादिभाष्यं योजयति -
युक्तिमित्यादिना ।
दर्शयद्भिरितिप्रदर्शयदिभरिति ।
मीमांसकैरित्यर्थः ।
मीमांसकैः दर्शितत्वमात्रेण युक्त्याभासत्वं न सिध्यति त्वयैव प्रदर्शनीयमिति अत आह -
इतरेषां चेति ।
अन्त्यपक्षादितरेषां देहादीनामित्यर्थः ।
अत्रैव प्रदर्शनीये सति कथं दर्शयिष्याम इत्युच्यत इति तत्राह -
दर्शितं चेति ।