तस्माद् ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयत इति ॥
ब्रह्मजिज्ञासोपन्यासव्याजेन जिज्ञासापदेनान्तर्णीतमीमांसावेदान्तवाक्यानामारभ्यते । अथवा ब्रह्मज्ञाने कर्तव्यतयोपदिष्टे तज्ज्ञानाय प्रवृत्तेभ्योऽर्थादेव तत्प्रतिपादनं प्रतिज्ञातम् , इति तदर्थं वेदान्तमीमांसाऽऽरभ्यते ।
किम्प्रयोजना ? किमुपकरणा चेति ? उच्यते —
तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना चेति ॥
तैः वेदान्तैः, अविरोधी तर्कः ; युक्तिः, उपकरणम् इतिकर्तव्यता, सहकारिकारणमिति यावत् । अथवा तर्कः अनुमानं, वेदान्तैरविरुद्धम् ; तदर्थप्रतीतेरेव दृढत्वहेतुतयोपकरणमस्या इत्यर्थः ॥ १ ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां विषय - प्रयोजनाक्षेपपरिहारवर्णनं नाम तुरीयवर्णकं समाप्तम् ॥
सूत्रवाक्यार्थमुपसंहरति -
तस्माद् ब्रह्मजिज्ञासोपन्यासमुखेनेति ।
जिज्ञासापदेन लक्षितविचारकर्तव्यतार्थामित्यर्थः । इति परानन्दपरिज्ञानपरितृप्तपरमहंसपरिव्राजकाचार्य श्रीमज्ज्ञानोत्तमभगवत्पूज्यपादशिष्येण उत्तमज्ञयतिवरेण विरचितायां लावण्यइदमभिधानं नूतनम्पादिकायां प्रथमसूत्रम् । || इति तुरीयवर्णककाशिका ||