अथ पञ्चमं वर्णकम्
‘ब्रह्म जिज्ञासितव्यमि’त्युक्तमिति
ब्रह्मज्ञानकामेनेदं शास्त्रं श्रोतव्यमित्युक्तमित्यर्थः ।
यदैवेदमित्युक्तं तदैव ब्रह्मणो लक्षणं प्रमाणं युक्तिः साधनं प्रयोजनमिति सर्वं व्याख्येयत्वेन प्रतिज्ञातम् । तत्र स्वरूपस्याभ्यर्हितत्वात् तत् प्रथमं वक्तव्यम् ।
किं लक्षणं पुनस्तद् ब्रह्मेति ?
अत आह भगवान् सूत्रकारः —
जन्माद्यस्य यत इति ॥
वृत्तसङ्कीर्तनभाष्यगतजिज्ञासाशब्दस्य लक्षणावृत्त्यान्तर्णीतविचारार्थोपपादनेनार्थं कथयति -
ब्रह्मज्ञानकामेनेति ।
ब्रह्मज्ञानाय ब्रह्मविचारः कर्तव्य इति चेदुच्यते, ब्रह्मलक्षणप्रमाणयुक्तिसाधनफलविचाराणाम्नामप्रति इति प्रतिज्ञातत्वात् अननुष्ठेयतेत्यत आह -
यदैवेदमिति ।
यदैव ब्रह्मविचारस्य कर्तव्यत्वमुक्तमित्यर्थः ।
व्याख्येयत्वेन प्रतिज्ञातमिति ।
विचार्यत्वेन प्रतिज्ञातमन्यथा ब्रह्मज्ञानाज्ञानसिद्धेरितिसिद्धेरित्यर्थः ।
पञ्चानां विचाराणां प्रतिज्ञातत्वे प्रथमं किं लक्षणं ब्रह्मेति, किमिति स्वरूपमाकाङ्क्ष्यते । किमिति वा तन्निरासाय स्वरूपमेव प्रथमं विचार्यत इत्यत आह -
स्वरूपस्याभ्यर्हितत्वादिति ।
ब्रह्मप्रमाणं ब्रह्मयुक्तिर्ब्रह्मसाधनं ब्रह्मफलमिति प्रमाणादिविचाराणां ब्रह्मविशेषणसापेक्षत्वात् विशेषणविशेष इतिभूतब्रह्मस्वरूपं प्रथमत एव विचार्यमित्यर्थः ।
वृत्तं सङ्कीर्त्य उत्तरेणाकाङ्क्षापुरःसरं सम्बन्धमाह -
किं लक्षणमिति ।
जिज्ञास्यपुरुषार्थब्रह्मस्वरूपप्रदर्शननिमित्तमाचार्यान् पूजयति -
भगवानिति ।