पञ्चपादिका
वक्तव्यकाशिका
 

अस्य जगतः

इत्यादिना भाष्येण लक्ष्यस्य ब्रह्मणः स्वरूपलक्षणं कथयितुमुपक्रमते

द्विविधं हि लक्षणम् उपलक्षणं विशेषलक्षणं तत्रेदं लक्षणं प्रपञ्चधर्मत्वात् पृथग्भूतमेव कारणमुपलक्षयति विशेषणत्वेनअतः पृथक् स्वलक्षणकथनम्

नामरूपाभ्यां व्याकृतस्येति

कार्यप्रपञ्चं केचित् स्वप्रक्रियानुसारेण विभजन्ति, तद्व्युदासाय प्रसिद्धार्थानुवादश्रुतिबलेन द्वैराश्यं कृत्वाऽऽह

नामरूपाभ्यामिति

इत्थम्भावे तृतीया

व्याक्रियमाणं हि वस्त्वभिधेयरूपं स्वनामगर्भं विकल्पपूर्वमेव व्याक्रियत इति स्वसंवेद्यमेतत्

अनेककर्तृभोक्तृसंयुक्तस्येति

कर्तृत्वभोक्तृत्वमपि नामरूपात्मकत्वात्प्रपञ्चानुयायीति दर्शयति

प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्येति

प्रतिकर्मफलोपभोगे नियतो देशः स्वर्गफलस्य मेरुपृष्ठं, ग्रामादिफलस्य भूमण्डलम्कालोऽपि स्वर्गफलस्य देहपातादूर्ध्वं, पुत्रफलस्य बालभावात्निमित्तमपि उत्तरायणादिमरणस्य

विशेषणलक्षणं चेति ।

स्वरूपलक्षणं चेत्यर्थः । इदं लक्षणं कारणत्वं प्रपञ्चजन्मादिकारणत्वमिति प्रपञ्चापेक्षधर्मत्वात् पृथग्भूतमेव लक्ष्यात्लक्ष्याब्राह्मणः इति ब्रह्मणः पृथग्भूतमेव कारणं कारणत्वाश्रयं ब्रह्म उपलक्षयति, न विशेषणत्वेन, ननः इति स्वरूपलक्षणत्वेन, अतः पृथक् स्वलक्षणकथनं, स्वरूपलक्षणकथनमिति योजना ।

कार्यप्रपञ्चं केचिदिति ।

नामरूपकर्मात्मकमिति वेदान्तिनः । द्रव्यगुणकर्मसामान्यात्मकमिति वार्तिककारीयाः, कार्यकारणयोगविधिदुःखान्ताः पञ्चेति शैवाः । द्रव्यगुणकर्मसामान्यविशेषसमवायाः षडिति वैशेषिकाः । जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षाः सप्तेति क्षपणकाः । द्रव्यगुणकर्मसामान्यविशेषपारतन्त्र्यशक्तिनियोगा इत्यष्टौ इति प्राभाकराः । प्रमाणप्रमेय संशयप्रयोजनसंशयोत्तरं प्रयोजनं इति न दृश्यते, परं, निर्णयानन्तरं प्रयोजनमिति दृश्यतेदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभास छल जातिनिग्रहस्थानानि षोडश इति नैयायिकाः । ज्ञानेन्द्रियकर्मेन्द्रिय भूततन्मात्रमहाभूत मनोऽहङ्कारमहदमहाव्यक्तेतिव्यक्तपुरुषा इति साङ्ख्याः, इत्येवं प्रपञ्चं विभजन्तीत्यर्थः ।

श्रुतिबलेनेति ।

नामरूपाभ्यामेव व्याक्रियत इति श्रुतिबलेनेत्यर्थः ।

यद्यपि रूप्यत इति अहियाख्येति दृश्यतेरूपं दृश्यजगत् व्याक्रियते, कथं नाम्ना रूपितमुत्पद्यत इति तत्राह -

व्याक्रियमाणमिति ।

रूपशब्दार्थमाह -

अभिधेयमिति ।

लोके कुलालः प्रथमं घटशब्दं बुद्ध्‍वा घटत्वसामान्यमस्य शब्दस्यार्थ इतिइति शब्दो न दृश्यते तथैव बुद्ध्‍वा तस्याजातेर्व्यञ्जनसमर्थपृथुबुध्नोदराकारो घटशब्दस्य पर्यवसानयोग्यः कश्चिदिति विशेषमपि बुद्धौ शब्दावकुण्ठितमारोप्य बाह्यक्रियया पश्चाद् घटं निष्पादयतीति स्वपक्षमाह -

स्वनामगर्भं विकल्पेत्यादिना ।

विकल्प इति बुद्धिरित्यर्थः ।

आत्मपक्षनिविष्टयोः कथं जगदन्तर्भाव इति शङ्कानिवृत्त्यर्थमाह -

कर्तृत्वकर्तृ इति - भोक्तृत्वमपीति ।

सन्निवेशमिति शरीरमित्यर्थः ।