विशेषणलक्षणं चेति ।
स्वरूपलक्षणं चेत्यर्थः । इदं लक्षणं कारणत्वं प्रपञ्चजन्मादिकारणत्वमिति प्रपञ्चापेक्षधर्मत्वात् पृथग्भूतमेव लक्ष्यात्लक्ष्याब्राह्मणः इति ब्रह्मणः पृथग्भूतमेव कारणं कारणत्वाश्रयं ब्रह्म उपलक्षयति, न विशेषणत्वेन, ननः इति स्वरूपलक्षणत्वेन, अतः पृथक् स्वलक्षणकथनं, स्वरूपलक्षणकथनमिति योजना ।
कार्यप्रपञ्चं केचिदिति ।
नामरूपकर्मात्मकमिति वेदान्तिनः । द्रव्यगुणकर्मसामान्यात्मकमिति वार्तिककारीयाः, कार्यकारणयोगविधिदुःखान्ताः पञ्चेति शैवाः । द्रव्यगुणकर्मसामान्यविशेषसमवायाः षडिति वैशेषिकाः । जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षाः सप्तेति क्षपणकाः । द्रव्यगुणकर्मसामान्यविशेषपारतन्त्र्यशक्तिनियोगा इत्यष्टौ इति प्राभाकराः । प्रमाणप्रमेय संशयप्रयोजनसंशयोत्तरं प्रयोजनं इति न दृश्यते, परं, निर्णयानन्तरं प्रयोजनमिति दृश्यतेदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभास छल जातिनिग्रहस्थानानि षोडश इति नैयायिकाः । ज्ञानेन्द्रियकर्मेन्द्रिय भूततन्मात्रमहाभूत मनोऽहङ्कारमहदमहाव्यक्तेतिव्यक्तपुरुषा इति साङ्ख्याः, इत्येवं प्रपञ्चं विभजन्तीत्यर्थः ।
श्रुतिबलेनेति ।
नामरूपाभ्यामेव व्याक्रियत इति श्रुतिबलेनेत्यर्थः ।
यद्यपि रूप्यत इति अहियाख्येति दृश्यतेरूपं दृश्यजगत् व्याक्रियते, कथं नाम्ना रूपितमुत्पद्यत इति तत्राह -
व्याक्रियमाणमिति ।
रूपशब्दार्थमाह -
अभिधेयमिति ।
लोके कुलालः प्रथमं घटशब्दं बुद्ध्वा घटत्वसामान्यमस्य शब्दस्यार्थ इतिइति शब्दो न दृश्यते तथैव बुद्ध्वा तस्याजातेर्व्यञ्जनसमर्थपृथुबुध्नोदराकारो घटशब्दस्य पर्यवसानयोग्यः कश्चिदिति विशेषमपि बुद्धौ शब्दावकुण्ठितमारोप्य बाह्यक्रियया पश्चाद् घटं निष्पादयतीति स्वपक्षमाह -
स्वनामगर्भं विकल्पेत्यादिना ।
विकल्प इति बुद्धिरित्यर्थः ।
आत्मपक्षनिविष्टयोः कथं जगदन्तर्भाव इति शङ्कानिवृत्त्यर्थमाह -
कर्तृत्वकर्तृ इति - भोक्तृत्वमपीति ।
सन्निवेशमिति शरीरमित्यर्थः ।