पञ्चपादिका
वक्तव्यकाशिका
 
अस्य जगतः इत्यादिना भाष्येण लक्ष्यस्य ब्रह्मणः स्वरूपलक्षणं कथयितुमुपक्रमते । द्विविधं हि लक्षणम् उपलक्षणं विशेषलक्षणं च । तत्रेदं लक्षणं प्रपञ्चधर्मत्वात् पृथग्भूतमेव कारणमुपलक्षयति न विशेषणत्वेन । अतः पृथक् स्वलक्षणकथनम् । नामरूपाभ्यां व्याकृतस्येति ॥ कार्यप्रपञ्चं केचित् स्वप्रक्रियानुसारेण विभजन्ति, तद्व्युदासाय प्रसिद्धार्थानुवादश्रुतिबलेन द्वैराश्यं कृत्वाऽऽह — नामरूपाभ्यामिति ॥ इत्थम्भावे तृतीया ॥ व्याक्रियमाणं हि वस्त्वभिधेयरूपं स्वनामगर्भं विकल्पपूर्वमेव व्याक्रियत इति स्वसंवेद्यमेतत् । अनेककर्तृभोक्तृसंयुक्तस्येति ॥ कर्तृत्वभोक्तृत्वमपि नामरूपात्मकत्वात्प्रपञ्चानुयायीति दर्शयति — प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्येति ॥ प्रतिकर्मफलोपभोगे नियतो देशः स्वर्गफलस्य मेरुपृष्ठं, ग्रामादिफलस्य भूमण्डलम् । कालोऽपि स्वर्गफलस्य देहपातादूर्ध्वं, पुत्रफलस्य बालभावात् । निमित्तमपि उत्तरायणादिमरणस्य ।

विशेषणलक्षणं चेति ।

स्वरूपलक्षणं चेत्यर्थः । इदं लक्षणं कारणत्वं प्रपञ्चजन्मादिकारणत्वमिति प्रपञ्चापेक्षधर्मत्वात् पृथग्भूतमेव लक्ष्यात्लक्ष्याब्राह्मणः इति ब्रह्मणः पृथग्भूतमेव कारणं कारणत्वाश्रयं ब्रह्म उपलक्षयति, न विशेषणत्वेन, ननः इति स्वरूपलक्षणत्वेन, अतः पृथक् स्वलक्षणकथनं, स्वरूपलक्षणकथनमिति योजना ।

कार्यप्रपञ्चं केचिदिति ।

नामरूपकर्मात्मकमिति वेदान्तिनः । द्रव्यगुणकर्मसामान्यात्मकमिति वार्तिककारीयाः, कार्यकारणयोगविधिदुःखान्ताः पञ्चेति शैवाः । द्रव्यगुणकर्मसामान्यविशेषसमवायाः षडिति वैशेषिकाः । जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षाः सप्तेति क्षपणकाः । द्रव्यगुणकर्मसामान्यविशेषपारतन्त्र्यशक्तिनियोगा इत्यष्टौ इति प्राभाकराः । प्रमाणप्रमेय संशयप्रयोजनसंशयोत्तरं प्रयोजनं इति न दृश्यते, परं, निर्णयानन्तरं प्रयोजनमिति दृश्यतेदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभास छल जातिनिग्रहस्थानानि षोडश इति नैयायिकाः । ज्ञानेन्द्रियकर्मेन्द्रिय भूततन्मात्रमहाभूत मनोऽहङ्कारमहदमहाव्यक्तेतिव्यक्तपुरुषा इति साङ्ख्याः, इत्येवं प्रपञ्चं विभजन्तीत्यर्थः ।

श्रुतिबलेनेति ।

नामरूपाभ्यामेव व्याक्रियत इति श्रुतिबलेनेत्यर्थः ।

यद्यपि रूप्यत इति अहियाख्येति दृश्यतेरूपं दृश्यजगत् व्याक्रियते, कथं नाम्ना रूपितमुत्पद्यत इति तत्राह -

व्याक्रियमाणमिति ।

रूपशब्दार्थमाह -

अभिधेयमिति ।

लोके कुलालः प्रथमं घटशब्दं बुद्ध्‍वा घटत्वसामान्यमस्य शब्दस्यार्थ इतिइति शब्दो न दृश्यते तथैव बुद्ध्‍वा तस्याजातेर्व्यञ्जनसमर्थपृथुबुध्नोदराकारो घटशब्दस्य पर्यवसानयोग्यः कश्चिदिति विशेषमपि बुद्धौ शब्दावकुण्ठितमारोप्य बाह्यक्रियया पश्चाद् घटं निष्पादयतीति स्वपक्षमाह -

स्वनामगर्भं विकल्पेत्यादिना ।

विकल्प इति बुद्धिरित्यर्थः ।

आत्मपक्षनिविष्टयोः कथं जगदन्तर्भाव इति शङ्कानिवृत्त्यर्थमाह -

कर्तृत्वकर्तृ इति - भोक्तृत्वमपीति ।

सन्निवेशमिति शरीरमित्यर्थः ।