पञ्चपादिका
वक्तव्यकाशिका
 
मनसाऽप्यचिन्त्यरचनारूपस्येति ॥ न ह्यर्वाग्दर्शी क्वचिद्बहिर्लोकसन्निवेशप्रकारमध्यात्मं च प्रतिनियतार्थक्रियासमर्थावयवशिराजालसन्निवेशं निरूपयितुमपि समर्थः, किं पुनर्विरचयितुम् ॥ जन्मस्थितिभङ्गं यतः सर्वज्ञात् सर्वशक्तेः कारणाद् भवति, तद् ब्रह्मेति वाक्यशेष इति साकाङ्क्षस्य सूत्रवाक्यस्याकाङ्क्षितपदपूरणम् , उपलक्षितब्रह्मस्वरूपं लक्षणं च दर्शयति ॥

स्वलक्षणंपञ्चपाद्यां तु स्वरूपं लक्षणमिति दृश्यते च दर्शयतीति ।

सर्वज्ञं सर्वशक्तीति स्वरूपलक्षणं दर्शयतीत्यर्थः ।