अचेतनात्तावदचेतनत्वादेवानुपपन्नम् । चेतनादपि ; परिच्छिन्नज्ञानक्रियाशक्तित्वात् । अभावात् पुनर्नाचेतनत्वादेव केवलादनुपपत्तिः, अपि तु निरुपाख्यत्वादतीतकल्पसंस्काराभावात् , पूर्वकल्पैकरूपो वर्तमानोऽपि कल्प इति प्रमाणाभावात् , सर्व एव व्यवहारो यादृच्छिक इति न क्वचित् कश्चिन्नियमोऽभविष्यत् ।
न च स्वभावतः विशिष्टदेशकालनिमित्तोपादानादिति ॥
स्वभावो नामान्यानपेक्षः । तेनापेक्षैवानुपपन्ना, कुतो नियमसम्भवः ? अतो युक्त्याऽपि वस्त्वन्तरस्य कारणत्वसम्भावनानिराकरणेन पारिशेष्यात्पूर्वोक्तविशेषण ईश्वर एव कारणमिति सिद्धम् ॥
साङ्ख्यादिभिरुक्तब्रह्मातिरिक्तकारणाख्यार्थदूषणमभिप्रेत्याह -
अचेतना तावदित्यादिना ।
वैशेषिकादिमते कुलालादि दृष्टान्तेनानुमीयमानस्यस्वरस्येति तेनैव दृष्टान्तेन परिच्छिन्नज्ञानादिमत्वं प्राप्नोतीत्यभिप्रेत्याह -
चेतनादपीति ।
शून्यात् करणादितिकारणाज्जगदुत्पत्त्यादेरनुपपत्तिरित्याह -
अभावादिति ।
निरुपाख्यत्वात् स्वरूपप्रतीतिहीनत्वादित्यर्थः ।
न क्वचिन्नियमोऽभविष्यदिति ।
कर्मफलनियमस्य शब्दार्थसम्बन्धनियमस्य चाभावादित्यर्थः ।
अनन्यापेक्ष इति ।
स्वयमेव स्वस्य निमित्तमित्येतत् स्वभावशब्दार्थो न भवतीति भावः ।
कुतो नियमसम्भव इति ।
विशिष्टदेशकालनिमित्तापेक्षयैव कार्योत्पत्तिरिति नियमो दृष्टः । स न स्यादित्यर्थः ।