पञ्चपादिका
वक्तव्यकाशिका
 

अचेतनात्तावदचेतनत्वादेवानुपपन्नम्चेतनादपि ; परिच्छिन्नज्ञानक्रियाशक्तित्वात्अभावात् पुनर्नाचेतनत्वादेव केवलादनुपपत्तिः, अपि तु निरुपाख्यत्वादतीतकल्पसंस्काराभावात् , पूर्वकल्पैकरूपो वर्तमानोऽपि कल्प इति प्रमाणाभावात् , सर्व एव व्यवहारो यादृच्छिक इति क्वचित् कश्चिन्नियमोऽभविष्यत्

स्वभावतः विशिष्टदेशकालनिमित्तोपादानादिति

स्वभावो नामान्यानपेक्षःतेनापेक्षैवानुपपन्ना, कुतो नियमसम्भवः ? अतो युक्त्याऽपि वस्त्वन्तरस्य कारणत्वसम्भावनानिराकरणेन पारिशेष्यात्पूर्वोक्तविशेषण ईश्वर एव कारणमिति सिद्धम्

साङ्ख्यादिभिरुक्तब्रह्मातिरिक्तकारणाख्यार्थदूषणमभिप्रेत्याह -

अचेतना तावदित्यादिना ।

वैशेषिकादिमते कुलालादि दृष्टान्तेनानुमीयमानस्यस्वरस्येति तेनैव दृष्टान्तेन परिच्छिन्नज्ञानादिमत्वं प्राप्नोतीत्यभिप्रेत्याह -

चेतनादपीति ।

शून्यात् करणादितिकारणाज्जगदुत्पत्त्यादेरनुपपत्तिरित्याह -

अभावादिति ।

निरुपाख्यत्वात् स्वरूपप्रतीतिहीनत्वादित्यर्थः ।

न क्वचिन्नियमोऽभविष्यदिति ।

कर्मफलनियमस्य शब्दार्थसम्बन्धनियमस्य चाभावादित्यर्थः ।

अनन्यापेक्ष इति ।

स्वयमेव स्वस्य निमित्तमित्येतत् स्वभावशब्दार्थो न भवतीति भावः ।

कुतो नियमसम्भव इति ।

विशिष्टदेशकालनिमित्तापेक्षयैव कार्योत्पत्तिरिति नियमो दृष्टः । स न स्यादित्यर्थः ।