एतदेवानुमानमिति ॥
येयं युक्तिरभिहिता यथोक्तविशेषणमीश्वरं मुक्त्वा नान्यतो जगतो जन्मादि सम्भवतीति, एतदेव स्वतन्त्रमनुमानमीश्वरसिद्धौ सर्वज्ञत्वसर्वशक्तित्वसिद्धौ च तस्य प्रमाणम् , किं वेदवाक्यैः ? इतीश्वरकारणिनः कणादप्रभृतयो मन्यन्ते ।
सम्भावनाबुद्धिमात्रहेतुः क्वचिद्धेतुसाध्ययोः सहचारदर्शनाख्यव्याप्त्यनुपपत्त्याभासो युक्तिः अव्यभिचारिणी च व्याप्तिरर्थनिश्चायकं चानुमानम् । तत्रेह सूत्रिता आगमप्रमाणानुग्राहिका युक्तिरेव अज्ञानात् तामनुमानं स्वतन्त्रं प्रमाणं मन्यन्ते, तन्न युक्तमित्यभिप्रेत्याह -
येयं युक्तिरिति ।
किं वेदकिं वा वाक्यैरिति वाक्यैरिति ।
युक्तित्वाभावे सति किं तदनुग्राह्यवेदवाक्यैरित्यर्थः ।