जन्मादिसूत्रलक्षितान्यपि वाक्यानि ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्यादीनि परार्थानुमानवाक्यसमानि दृश्यन्त इति वदन्तः ।
नन्विहापि तदेवोपन्यस्तमिति ॥
यथा धूमविशेषस्यागरुसम्भवत्वं, तथा प्रपञ्चसन्निवेशविशेषस्य सर्वज्ञत्वादिगुणकारणकत्वमिति ।
न वेदान्तवाक्यकुसुमग्रथनार्थत्वात् सूत्राणामिति ॥
सत्यं तदेवोपन्यस्तमुपकरणत्वेन, न तत्र तात्पर्यं, तात्पर्यन्तु वेदवाक्यग्रथने ।
तदेव प्रपञ्चयति —
वेदान्तवाक्यानीति ॥
ईश्वरप्रतिपादकवाक्येषु सत्सु किमित्यनुमानप्रयास इति न, वाक्यानामपि अनुमानसिद्धार्थानुवादकत्वात् , ईश्वरप्रतिपादकत्वं नास्तीति वदन्तीत्याह -
जन्मादिसूत्रलक्षितान्यपि इति ।
तदेवोपन्यस्तमिति ।
स्वातन्त्र्येणार्थनिश्चायकमनुमानमुपन्यस्तं न त्वागमगुणभूता युक्तिरियमित्यर्थः ।
प्रपञ्चकार्यस्य सर्वज्ञकारणेन व्याप्तिग्रहणाभावे कथमनुमानमिति तत्राह -
यथा धूमविशेषस्येति ।
सुगन्धधूमस्येत्यर्थः ।
उपकरणत्वेनेति ।
अर्थनिश्चायकवेदान्तवाक्यं प्रत्युपकरणत्वेनेत्यर्थः ।
ग्रथने
उदाहरण इत्यर्थः ।