पञ्चपादिका
वक्तव्यकाशिका
 

जन्मादिसूत्रलक्षितान्यपि वाक्यानि यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्यादीनि परार्थानुमानवाक्यसमानि दृश्यन्त इति वदन्तः

नन्विहापि तदेवोपन्यस्तमिति

यथा धूमविशेषस्यागरुसम्भवत्वं, तथा प्रपञ्चसन्निवेशविशेषस्य सर्वज्ञत्वादिगुणकारणकत्वमिति

वेदान्तवाक्यकुसुमग्रथनार्थत्वात् सूत्राणामिति

सत्यं तदेवोपन्यस्तमुपकरणत्वेन, तत्र तात्पर्यं, तात्पर्यन्तु वेदवाक्यग्रथने

तदेव प्रपञ्चयति

वेदान्तवाक्यानीति

ईश्वरप्रतिपादकवाक्येषु सत्सु किमित्यनुमानप्रयास इति न, वाक्यानामपि अनुमानसिद्धार्थानुवादकत्वात् , ईश्वरप्रतिपादकत्वं नास्तीति वदन्तीत्याह -

जन्मादिसूत्रलक्षितान्यपि इति ।

तदेवोपन्यस्तमिति ।

स्वातन्त्र्येणार्थनिश्चायकमनुमानमुपन्यस्तं न त्वागमगुणभूता युक्तिरियमित्यर्थः ।

प्रपञ्चकार्यस्य सर्वज्ञकारणेन व्याप्तिग्रहणाभावे कथमनुमानमिति तत्राह -

यथा धूमविशेषस्येति ।

सुगन्धधूमस्येत्यर्थः ।

उपकरणत्वेनेति ।

अर्थनिश्चायकवेदान्तवाक्यं प्रत्युपकरणत्वेनेत्यर्थः ।

ग्रथने

उदाहरण इत्यर्थः ।