अनुमानेनेश्वरोऽस्तीति सिध्यति चेत् किमिति सूत्रैः वेदान्तवाक्यान्युदाहृत्य विचार्यन्ते इत्याशङ्क्यानुमानेन कार्यस्य कारणमस्तीत्येतावदेव सिध्यति, न तु सर्वज्ञादिरूप ईश्वरः कारणमिति सिध्यतीत्यतः कारणविशेषसिध्यर्थं वाक्यान्युदाहर्तव्यानीत्याह -
समन्वयसूत्रप्रमुखोपात्तैरिति ।
तात्पर्याध्यवसाननिर्वृत्ता हीति ।
तात्पर्याध्यवसाननिर्वृत्ता अध्यवसिततात्पर्ययुक्तवाक्यनिर्वृत्तेत्यर्थः ।
न तर्हि युक्तिरत्र सूत्रिता आगमेनैवआमेनैवेति विशिष्टार्थसिद्धेरिति, तत्राह -
सत्स्विति ।
कारणं ब्रह्म अस्तीति निश्चायकवाक्येषु सस्त्वित्यर्थः ।
तदविरोधीति ।
अर्थनिश्चयमकृत्वा कारणं ब्रह्म सद्भवतीति सम्भावनाबुद्धिमात्रे हेतुत्वात् तदविरोधीत्यर्थः ।
वाक्यगत शक्तितात्पर्यनिर्णायकतर्कापेक्षायामपि प्रमेयविषयतर्कानपेक्षेति तत्राह -
श्रुत्यैवेति ।
नेत्यधिकं दृश्यतेपुरुषबुद्धीति ।
श्रोतृबुद्धीत्यर्थः ।
आचार्यवान्वासेदेवेत्युक्ता इति पुरुषो वेदेत्यनेन कथं पुरुषबुद्धिसाहाय्यं प्रदर्श्यत इत्याशङ्क्य आचार्येणापादितआपातितेतिप्रत्ययदार्ढ्यवानाचार्यवानित्युच्यते । अतः पुरुषबुद्धिसाहाय्यं प्रदर्शितमित्याह -
यदाचार्येणेति ।
कारणमाहेति ।
ब्रह्मज्ञा ब्रह्मज्ञानस्येतिब्रह्मज्ञानानुभवपर्यन्तत्वाख्यकारणमाहेत्यर्थः । लिङ्गं श्रुतस्यार्थस्यार्थान्तरेणाविनाभावः ।
अनेक पदसामर्थ्यं वाक्यम् । वाक्यद्वयसामर्थ्यमारभ्याधीतविषयं प्रकरणं, क्रमवर्तिनां क्रमवर्तिभिः पदार्थैर्यथाक्रमं सम्बन्धः, स्थानम् , संज्ञा, साम्यं, समाख्या इत्येते शब्दप्रमाणप्रकाराः श्रुत्यादय इत्यत्रादिशब्देन गृह्यन्त इत्याह -
आदिशब्देनेति ।