पञ्चपादिका
वक्तव्यकाशिका
 

समन्वयसूत्रप्रमुखोपात्तैः शब्दशक्त्यनुसारिभिर्न्यायैर्वाक्यानां ब्रह्मणि तात्पर्याध्यवसाननिर्वृत्ता ब्रह्मावगतिः

नानुमानादिप्रमाणान्तरनिर्वृत्तासत्सु तु वेदान्तवाक्येषु तदविरोध्यनुमानमपि प्रमाणं भवन्न निवार्यते ; श्रुत्यैव सहायत्वेन तर्कस्याप्यभ्युपेतत्वात्तथा हिश्रोतव्यो मन्तव्यःइति

श्रुत्या यथा श्रवणं ब्रह्मावगतिहेतुरनूद्यते, तथा मननस्यापि सिद्धवदनूद्यमानत्वात्तथाऽपरा श्रुतिःपण्डितो मेधावी’त्यादिःआचार्यवान् पुरुषो वेदे’ति पुरुषबुद्धिसाहाय्यमात्मनो दर्शयतियदाचार्येण श्रुत्यनुसारिणा स्फटिकादिनिदर्शनेन शिष्येभ्यः प्रत्ययदार्ढ्यापादनं, तदाचार्यवान् पुरुषो वेदेत्यनूद्यते

धर्मजिज्ञासायामिवेत्यादिना

युक्तिसाहाय्यापेक्षणे कारणमाह

श्रुत्यादय इति

श्रुतिः पदान्तरनिरपेक्षः शब्दःआदिशब्देन लिङ्गवाक्यादयः शब्दप्रकारा गृह्यन्ते

अनुमानेनेश्वरोऽस्तीति सिध्यति चेत् किमिति सूत्रैः वेदान्तवाक्यान्युदाहृत्य विचार्यन्ते इत्याशङ्क्यानुमानेन कार्यस्य कारणमस्तीत्येतावदेव सिध्यति, न तु सर्वज्ञादिरूप ईश्वरः कारणमिति सिध्यतीत्यतः कारणविशेषसिध्यर्थं वाक्यान्युदाहर्तव्यानीत्याह -

समन्वयसूत्रप्रमुखोपात्तैरिति ।

तात्पर्याध्यवसाननिर्वृत्ता हीति ।

तात्पर्याध्यवसाननिर्वृत्ता अध्यवसिततात्पर्ययुक्तवाक्यनिर्वृत्तेत्यर्थः ।

न तर्हि युक्तिरत्र सूत्रिता आगमेनैवआमेनैवेति विशिष्टार्थसिद्धेरिति, तत्राह -

सत्स्विति ।

कारणं ब्रह्म अस्तीति निश्चायकवाक्येषु सस्त्वित्यर्थः ।

तदविरोधीति ।

अर्थनिश्चयमकृत्वा कारणं ब्रह्म सद्भवतीति सम्भावनाबुद्धिमात्रे हेतुत्वात् तदविरोधीत्यर्थः ।

वाक्यगत शक्तितात्पर्यनिर्णायकतर्कापेक्षायामपि प्रमेयविषयतर्कानपेक्षेति तत्राह -

श्रुत्यैवेति ।

नेत्यधिकं दृश्यतेपुरुषबुद्धीति ।

श्रोतृबुद्धीत्यर्थः ।

आचार्यवान्वासेदेवेत्युक्ता इति पुरुषो वेदेत्यनेन कथं पुरुषबुद्धिसाहाय्यं प्रदर्श्यत इत्याशङ्क्य आचार्येणापादितआपातितेतिप्रत्ययदार्‌ढ्यवानाचार्यवानित्युच्यते । अतः पुरुषबुद्धिसाहाय्यं प्रदर्शितमित्याह -

यदाचार्येणेति ।

कारणमाहेति ।

ब्रह्मज्ञा ब्रह्मज्ञानस्येतिब्रह्मज्ञानानुभवपर्यन्तत्वाख्यकारणमाहेत्यर्थः । लिङ्गं श्रुतस्यार्थस्यार्थान्तरेणाविनाभावः ।

अनेक पदसामर्थ्यं वाक्यम् । वाक्यद्वयसामर्थ्यमारभ्याधीतविषयं प्रकरणं, क्रमवर्तिनां क्रमवर्तिभिः पदार्थैर्यथाक्रमं सम्बन्धः, स्थानम् , संज्ञा, साम्यं, समाख्या इत्येते शब्दप्रमाणप्रकाराः श्रुत्यादय इत्यत्रादिशब्देन गृह्यन्त इत्याह -

आदिशब्देनेति ।