तदवसानेति ।
अनुभवसम्भवादेव अनुभवावसाना आकाङ्क्षानिवृत्तिर्यतोऽतोऽनुभवादयोऽपि ब्रह्मणि प्रमाणमिति योजना ।
तर्कगन्धमिति ।
साध्यस्वभावतच्छेषप्रतिपादकवाक्यापेक्षिततर्कव्यतिरेकेण साध्यरूपधर्माख्यविषये अनुभवहेतुतर्कापेक्षा नास्तीत्यर्थः ।
किमिति धर्मस्य अनुभवानपेक्षेति चोदयति -
कथमिति ।
कर्तव्यं हीति ।
साध्यं हीत्यर्थः ।
सिद्धस्य अनुभवयोग्यत्वेऽपि किमित्यनुभवोऽपेक्षित इति तत्राह -
साक्षाद्रूपेण इति ।
अपरोक्षरूपेणाहं कर्ता भोक्तेत्यादि विपर्यासगृहीतस्येत्यर्थः ।
मिथ्याज्ञानोदयेति ।
मिथ्याज्ञानमुदेत्यस्मादिति मिथ्याज्ञानोदयः अज्ञानमित्यर्थः । अथवा मिथ्याज्ञानोदय इति विपर्यासोदय एवोच्यते ।
अवबोधनप्रकारेऽपि साम्यमिति ।
धर्मबोधने ब्रह्मबोधने च मननिदि इतिमनननिदिध्यासनानुभवापेक्षा न तुल्येत्यर्थः ।
निष्पाद्यत्वमपि स्यादिति ।
सिद्धरूपस्य ब्रह्मण इति शेषः ।
अस्तु पुरुषेच्छावशनिर्वर्त्यत्वमिति तत्राह -
अतो इतिततो विधीति ।
विधिप्रतिषेधमते यजेत, न भक्षयेत् , इतिवत् ब्रह्म कुर्यात् न कुर्यादिति ब्रह्मणो विधेयत्वं प्रतिषेध्यत्वं च स्यादित्यर्थः ।
विकल्प इति ।
व्रीहिभिर्यवैर्वा इतिवत् ब्रह्म वा स्थाणुर्वेति इच्छाविकल्पः स्यादित्यर्थः ।
समुच्चय इति ।
षड्यागसमुच्चयवत् ब्रह्म च स्थाणुश्चेति समुच्चयः स्यादित्यर्थः ।
उत्सर्गापवाद इति ।
`न हिंस्यासर्वा इति न दृश्यतेत्सर्वा भूतानि', ‘अग्नीषोमीयं पशुमालभेत’ ‘आह्वनीये जुहोति’ ‘पदे जुहोति’ इतिवत् । सामान्यप्रतिपन्नब्रह्मणो विशेषेऽपवादः स्यादित्यर्थः ।
बाधाभ्युच्चय इति ।
प्रकृतेरतिदिष्टानां कुशमयबर्हिषां विकृतावुपदिष्टशरमयबर्हिभिर्बाधवत् ब्रह्मणोऽपि क्वचित् प्राप्तस्य पदार्थान्तरेण बाधःबाध्य इति स्यात् । प्राकृतानां नारिष्टहोमानां वैकृवैकृत्यै तैरुपहोमैः समुच्चित्यानुष्ठानवत् ब्रह्मणोऽप्यतिअतिनिर्दिष्टस्येतिदिष्टस्य उपदिष्टेन समुच्चित्यानुष्ठानमभ्युच्चयः, स च स्यादित्यर्थः ।
व्यवस्थितविकल्प इति ।
उदिते जुहोत्यजुहोतीत्यनुदित इतिनुदिते जुहोतीति शाखाभेदेन व्यवस्थावत् क्वचिद् ब्रह्म भवति क्वचिन्नेति न दृश्यतेक्वचिन्न भवतीति व्यवस्था स्यादित्यर्थः ।
निःस्वभावत्वनिःस्वभावेतिप्रसङ्गादिति ।
अव्यापारनिरपेक्षस्य कस्यचित् स्वभावस्याभावप्रसङ्गादित्यर्थः ।
सिद्धे वस्तुनि विकल्पिताविकल्पनानिरूपमितिदिरूपं नास्ति, तत्र विकल्पितादिरूपज्ञानस्यावस्तुजन्यत्वेजन्यते, नाप्रामाण्येतिनाप्रामाण्यदर्शनाद्यदि विकल्पितादिरूपं विद्येत तदातददेति यथावस्तु यथा सामग्रीजन्यतया विकल्पितादिरूपज्ञानस्य प्रामाण्यं धर्म इव प्रसज्येत न तथा प्रामाण्यं दृश्यत इति सिद्धवस्तुनि विकल्पिताविकलितेतिदिरूपं नास्तीत्याह -
तथा चैकस्मिन् वस्तुनि स्थाणुरिति ।
विकल्प इति ज्ञानमित्यर्थः ।
अर्थस्य विकल्पितरूपे सत्यपि स्थाणुरेवेति ज्ञानं प्रमाणं स्यादिति नेत्याह -
यतो वस्तुस्वभावपरतन्त्रमिति ।
अतो वस्तुन्येकरूपमेवेति भावः ।
किमित्यर्थानुरूपत्वं ज्ञानस्य भवेत् । ज्ञानानुरूपत्वमर्थस्य किं न स्यादिति तत्राह -
न ज्ञानपरतन्त्रं वस्त्विति ।
तथा स्यादिति ।
शुक्तिरपि वस्तुतो रजतं स्यादित्यर्थः ।
वैपरीत्येऽपीति ।
ज्ञानस्यार्थानुरूप्याभावेऽपीत्यर्थः ।