अपरः परिचोदयति —
ननु भूतवस्तुविषयत्व इत्यादिना ॥
अयमभिप्रायः — भूतत्वात् युक्तेरपि चेदनुप्रवेशः, तथा सति किं वेदवाक्यैर्विचारितैः ? यथाहुरीश्वरकारणिनः, तथा भवतु पूर्वसूत्रेण प्रतिज्ञानिर्देशोऽनेन च हेत्वभिधानमिति ।
उत्तरमाह —
नेन्द्रियादिविषयत्वेन सम्बन्धग्रहणादित्यादिना ॥
इन्द्रियाणि प्रपञ्चमात्रं गृह्णन्ति, न तत्कारणम् । यदि तद्ग्रहणमपि स्यात् , नानुमानोपन्यासेन कृत्यमस्ति । सामान्यतोदृष्टमपि न प्रमाणमतीन्द्रिये ब्रह्मणि,
अत उपसंहरति —
तस्माज्जन्मादिसूत्रं नानुमानोपन्यासार्थं, किं तर्हि ? वेदान्तवाक्यप्रदर्शनार्थमिति ॥
युक्तिमपि तदुपकरणां तदर्थानुभवप्रयोजनां सूचयतीत्युक्तम् ॥
अपर इति ।
अनुमानअनुमानमितिसूचनपरं सूत्रमिति वदन् वादीत्यर्थः ।
यथाहुरिति ।
अनुमानसूचनपरं सूत्रमित्याहुरित्यर्थः ।
नन्वनुमानसूचनपरं सूत्रं न प्रतिभातीति तत्राह -
पूर्वसूत्रेणेति ।
प्रतिज्ञानिर्देश इति ।
जिज्ञास्यं ब्रह्मास्तीति प्रतिज्ञानिर्देश इत्यर्थः ।
हेत्वभिधानमिति ।
ब्रह्मण एव जगज्जन्मादिसम्भवो यतयत्त इति इति हेत्वभिधानमित्यर्थः ।
न तावत् ब्रह्मविषयत्वेन सूत्रितमनुमानं विशेषतो दृष्टं ब्रह्मणोऽतीन्द्रियत्वात् । प्रत्यक्षेण तस्य प्रपञ्चेन व्याप्तिग्रहाभावादित्याह -
इन्द्रियाणीति ।
कार्यत्वात् कारणमस्तीति सामान्यतो दृष्टस्य कारणमात्रास्तित्वे पर्यवसानं न ब्रह्माख्यविशेष इति सामान्यतो दृष्टं दूषयति -
सामान्यतो दृष्टमपीति ।