नन्वेवं सति कथं युक्तिरब्रह्मविषया सती तद्विषयाणां वाक्यानामुपकरणं भवति ? उच्यते, ब्रह्मपरेषु मृदादिदृष्टान्तेर्युक्तस्य उपन्यस्यन्ते । ताश्च विधिप्रतिषेधवाक्ययोः प्रवर्तकत्वनिवर्तकत्वाकाङ्क्षितस्तुतिनिन्दार्थवादवत् स्वरूपवाक्यस्य फलपर्यन्तापेक्षितसम्भावनार्थवादतां प्रतिपद्यमानास्तत्र श्रुतिसाहाय्ये वर्तन्त इत्युच्यते ।
किम्पुनस्तद् वेदवाक्यं यत् सूत्रेणेह लिलक्षयिषितमिति ॥
सर्वत्र वेदान्तवाक्ये ब्रह्मपदस्याप्रसिद्धत्वान्न स्वार्थं विशेष्यत्वेन विशेषणत्वेन वा वाक्यार्थे समर्पयितुमलमित्याक्षिपति । येषां वेदान्तवाक्यानां येन सन्निवेशक्रमेण ब्रह्मप्रतिपादने समन्वयः स्वाध्यायपदे स्थितः, तल्लक्षणार्थं सूत्रद्वयमिति ।
तथैवोदाहणमाह —
भृगुर्वै वारुणिरिति ।
अथशब्दोपात्तन्यायेन प्रथमसूत्रस्योदाहरणं — ‘यतो वा इमानि भूतानी’ति जन्मादिसूत्रस्य । कथम् ? पूर्वोक्तेन न्यायेन पृथिव्यादीनां जन्मादिदर्शनात् तत्कारण एकत्वनानात्वयोरन्यतरावगमे प्रमाणाभावाद् बुद्धिमत्कारणपूर्वतामात्रे प्रतिपन्ने ‘यतो वा इमानी’ति कारणस्यैकवचननिर्देशात्तदर्थमात्रस्यैव विधित्सितत्वादर्थात्सर्वज्ञं सर्वशक्तिजगत्कारणमिति कारणविशेषो वाक्यादवगम्यते । पुनस्तद्विजिज्ञासस्वेत्यनूद्य तद् ब्रह्मेति तत्र ब्रह्मशब्दप्रयोगाद् बृहत्यर्थान्वयेन सर्वतोऽनवच्छिन्नस्वभावं जगत्कारणं ब्रह्मपदार्थ इति गम्यते । तस्य च निर्णयवाक्यमानन्दाद्ध्येव खल्विति ॥
विशेतो इतिविशेषतो दृष्टं सामान्यतो दृष्टं च ब्रह्मणि न सम्भवतीति उक्तमभिप्रेत्याह -
अब्रह्मविषयेति ।
ब्रह्मपरेष्विति ।
ब्रह्मनिश्चायकेष्वित्यर्थः ।
युक्तय इति ।
ब्रह्म निश्चाययितुनिश्चायैतुमितिमसमर्था अपि युक्तय इत्यर्थः ।
स्वरूपवाक्यस्येति ।
सिद्धरूपब्रह्मनिश्चायकवाक्यस्येत्यर्थः ।
फलपर्यन्ततेति ।
निश्चयाख्यफलपर्यन्ततेत्यर्थः ।
सम्भावनार्थवावान्दतामितिदतामिति ।
मृदादिदृष्टान्ते स्फटिकलोहित्येतिलौहित्यप्रतिबिम्बरज्जुरज्जुः सर्पः इतिसर्पघटाकाशतप्तपरशुदृष्टान्तैश्च उपन्यस्ता युक्तयोऽद्वितीयत्वं कर्तृत्वादेरारोपितत्वं जीवब्रह्मैक्यं प्रपञ्चासत्यत्वम् असङ्गत्वं जीवब्रह्मैक्यसत्यत्वं च सम्भवतीति सम्भावनाबुद्धिहेतुत्वेनार्थवादतां प्रतिपद्यमाना इत्यर्थः ।
किमिति यतो वा इमानीत्यतः पूर्ववाक्यमुदाह्रियत इत्याशङ्क्य श्रुतावधिकारिप्रदर्शनपूर्वकं विचारं प्रतिज्ञाय ब्रह्मप्रतिपादनमस्ति । तत्क्रमानुसारेण वाक्यमुदाहृत्य तदपेक्षितन्यायसूचनार्थं सूत्रद्वयमिति मत्वा प्रथमसूत्रोदाहरणभूतं पूर्ववाक्येन सहोदाहरतीत्याह -
येषां वेदान्तेति ।
समन्वयस्तात्पर्यमित्यर्थः ।
तल्लक्षणार्थं,
तद्वाक्यप्रदर्शनार्थमित्यर्थः । तद्विजिज्ञासस्वेति च प्रथमप्रथमप्रथमेतिधिकं इतिसूत्रांशस्योदाहरणमिति भावः । सत्यज्ञानानन्दप्रत्यगात्मब्रह्मपदार्थे अप्रसिद्धेऽपि बृहत्वमात्रस्य प्रसिद्धत्वात् तदनुवादेन सन्निहितपदार्थसंसर्गसंसर्गप्रतिपादनमितिसामर्थ्यात् विशिष्टं ब्रह्म प्रतिपत्तुं शक्यत इत्यतः बह्मेति न दृश्यतेब्रह्मप्रतिपादनपरं सत्यादिवाक्यं तदिति न दृश्यतेतत्प्रतिपादितसत्याद्येवार्थात् लक्षणमिति न सत्यज्ञानानन्दानन्तब्रह्मस्वरूपलक्षणस्य सिद्धानुवादत्वप्रसङ्ग इति प्रतिपादकवाक्यसम्भवात् तदाक्षेपपरिहारोऽप्यत्र द्रष्टव्यः ।
तन्तुपटन्यायेन जगत्कारणे नानात्वस्यापि प्रतिपत्तेर्यत् कारणं तत् ब्रह्मेति कारणानुवादेन कथं ब्रह्म प्रतिपादनीयमिति चोदयति -
कथमिति ।
यत्कारणं तदेकमित्येकत्वं यद्यपि वाक्यात् सिध्यति तथापि ज्ञानानन्दादिरूपब्रह्मैवेति कारणविशेषो वाक्यात् न सिध्यतीति तत्राह -
अर्थादिति ।
बुद्धिमत्कारणस्यैकत्वबलादित्यर्थः ।
यदेकं कारणं तद् ब्रह्मेति कारणस्य ब्रह्मेति संज्ञाविधिपरं वाक्यं किं न स्यादित्याशङ्क्य वाक्यार्थस्य तद्विजिज्ञासस्वेति मुमुक्षुजिज्ञास्यत्वोपदेशे तत्र प्रयुक्तब्रह्मशब्दस्य मुमुक्षुजिज्ञासायोग्याद्वितीयज्ञानानन्दादिस्वरूपकारणविषयत्वमेव न संज्ञामात्रत्वमित्याह -
तद्विजिज्ञासस्वेति ।
मुमुक्षुजिज्ञास्ये प्रयुक्तब्रह्मशब्दस्य बृहबहूपकारणमितित्कारणमर्थः स्यात् , न त्वानन्दादिरूपं कारणमित्याशङ्क्य कारणस्यानन्दत्वप्रतिपादकवाक्यं सामर्थ्यादानन्दादिरूपकारणमेव ब्रह्मशब्दार्थ इत्याह -
तस्यततो इति च निर्णयवाक्यमितिवाक्यमपीति ।
ततः ब्रह्मशब्दस्यानन्दादिरूपकारणविषयत्वादित्यर्थः ।