प्रसिद्धावद्योतकेन हिशब्देन संयुक्तमानन्दावद्योतकमुपपद्यते । अनानन्दात्मके हि जगत्कारणे ब्रह्मशब्दप्रयोगो न युज्यते । न हि तस्योपेक्षणीये विषये स्वार्थप्रक्षेपेण वृत्तिः समञ्जसा । तस्माद् ब्रह्मपरे वाक्ये जन्मादिधर्मजातस्योपलक्षणत्वाद् ब्रह्मसंस्पर्शाभावात् सर्वज्ञं सर्वशक्तिसमन्वितं परमानन्दं ब्रह्मेति जन्मादिसूत्रेण ब्रह्मस्वरूपं लक्षितमिति सिद्धम् ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां जन्माद्यधिकरणं नाम पञ्चमवर्णकं समाप्तम् ॥
ब्रह्मशब्दप्रयोगाच्च आनन्दस्वभावं ब्रह्मैव कारणमित्याह -
अनानन्दात्मके हीति ॥
इति परानन्दपरिज्ञानपरितृप्तपरमहंसपरिव्राजकाचार्य श्रीमज्ज्ञानोत्तमभगवत्पूज्यपादशिष्येणोत्तमज्ञयतिवरेण विरचितायां पञ्चपादिकावक्तव्यकाशिकयां द्वितीयं सूत्रम् । || इति पञ्चमवर्णककाशिका ||