पञ्चपादिका
वक्तव्यकाशिका
 
अथ षष्ठं वर्णकम् शास्त्रयोनित्वात् ॥ अयमपरः प्रपञ्चकारणस्य ब्रह्मणः सर्वज्ञत्वे हेतुः । अनेकनानाविधविषयविद्यास्थानोपबृंहितस्य वेदाख्यस्यापि शास्त्रस्य प्रपञ्चान्तःपातित्वात् तत एव जन्म । न च तेनाविषयीकृतस्य सद्भावे प्रमाणमस्ति । अतः सर्वविषयत्वात्सर्वज्ञं तत् । कल्पप्रत्ययप्रयोगो भाष्ये बोद्धृत्वाभावादीषदपरिसमाप्त्या । ततश्च कारणं तद्विषयादप्यधिकतरग्रहणसमर्थं गम्यते । दृश्यते ह्यद्यापि शास्त्रकाराणां तथाभावः । ननु एवं सति बुद्धिपूर्वत्वात्सापेक्षं स्यात् । न स्यात् ; ब्रह्मवदनादित्वात् । कूटस्थनित्यत्वाच्च ॥ कथं पुनस्ततो जन्म ? तत्परतन्त्रत्वात् , रज्जुसर्पवत् । तथा च श्रुतिः ‘निःश्वसितमेतदि’ति । यथाऽपेक्षारहितैव लोके निःश्वासप्रवृत्तिः, तथाऽस्यापीति न सापेक्षतादोषः ॥ ननु एवं सति कथं सर्वज्ञता ? तस्यैव ज्ञानशक्तिविवर्तात्मकत्वाद् नामप्रपञ्चस्य । रूपप्रपञ्चस्यापि तदाश्रित्य विवर्तनात् तज्जन्मता ; नासतः प्रादुर्भावात् ॥ इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां ब्रह्मणः सर्वज्ञत्वनिरूपणं नाम षष्ठं वर्णकं समाप्तम् ॥

पूर्वसूत्रे प्राधान्येन प्रतिपादितसर्वज्ञत्वे हेत्वन्तरमुच्यत इति सम्बन्धमाह -

अयमपर इति ।

पूर्वसूत्रोक्तसर्वकारणत्वमसिद्धं वेदान् प्रत्यकारणत्वादिति शङ्कानिरासाय वा सम्बन्धमाह -

अयमपर इति ।

शास्त्रकारणत्वाख्यो हेतुरित्यर्थः ।

वेदस्य तावत् सर्वविषयप्रकाशनसामर्थ्यं दर्शयति । तदुपादानतया ब्रह्मणोऽपि तमितितद्दर्शयितुं

अनेकनानाविधेति ।

तत एवेति ।

ब्रह्मण एवेत्यर्थः ।

वेदस्यार्थज्ञानकारणतया उपयोगादेवार्थज्ञातृत्वाभावात् कल्पप्प्रत्ययः न तु कतिपयविषयाप्रकाशकत्वादित्याह -

कल्पप्रत्यय इति ।

दृश्यते इति ।

शास्त्रस्य सामान्यबोधकत्वमेव तत्कर्तुः व्यक्तितत्सम्बन्धतदुपपादकयुक्तिज्ञत्वेन अधिकतरविज्ञानवत्वमस्तीति दृश्यत इत्यर्थः ।

बुद्धिपूर्वत्वादिति ।

वाक्यार्थं प्रमाणान्तरेण बुध्वा परस्मै रचितवाक्यत्वादित्यर्थः ।

ब्रह्मवदनादितिब्रह्मवदनादित्वादिति ।

विवादगोचरापन्नं सर्गकालीनवेदाध्ययनं पूर्वपूर्वतथाविधाध्ययनानुस्मृतिनिबन्धनं वेदाध्ययनत्वात् इदानीन्तनवेदाध्ययनवत् । विगीतो वेदः स्वार्थे प्रवृत्तप्रमाणान्तरजन्यो न भवति, अनीश्वरबुद्धिकार्यत्वाभावे सति धर्माधर्मब्रह्मप्रमाणत्वात् , परपरिकल्पितेश्वरबुद्धिवदित्यनुमानाभ्यामनादित्वादित्यर्थः ।

अनादित्वेऽपि पूर्वपूर्वसदृशक्रमरचनां विहाय पुराणवाक्यवत् प्रतिकल्पम् अन्यथान्यथा सन्निवेशप्रणयनमाशङ्क्याह -

कूटस्थनित्यत्वादिति ।

अनादेर्वेदस्य कथं ब्रह्मकारणतेति शङ्कते -

कथं पुनरिति ।

तत्परतन्त्रत्वादिति ।

शास्त्रशब्दोदितवर्णानां क्रमविशेषावच्छिन्नतया पदवाक्यप्रकरणेतिप्रमाणशास्त्ररूपाणां पूर्वपूर्वसदृशतया ब्रह्मोपादानत्वादित्यर्थः ।

अविकारिब्रह्मणि मिथ्यारूपेण वेदो विवर्तत इत्यभिप्रेत्याह -

रज्जुसर्पवदिति ।

उपलभ्य रचयितृत्वं विहाय ब्रह्मणः शब्दोपादानत्वमात्रेऽङ्गीकृते सर्वज्ञत्वं न सिध्यतीति चोदयति -

नन्वेवं सतीति ।

नोपलभ्य रचयितृत्वेन सर्वज्ञत्वं साध्यते । किन्तु सर्वप्रकाशनसमर्थसर्वशब्दोपादानत्वात् ब्रह्मणोऽपि तत्सामर्थ्याभावात् सर्वज्ञत्वमस्तीति साध्यत इत्याह -

तस्यैवेति ।

नाम्नो रूपप्रपञ्चोत्पत्तेः श्रुतत्वाद् ब्रह्मणः सर्वोपादानत्वं नास्तीत्याशङ्क्य नामावस्थापन्नत्वं ब्रह्मण एव उत्पत्तिश्रुत्यभिप्रेतअभिप्रेतेतिमित्याह । रूपप्रपञ्चं प्रति कारणत्वं यथा नोपलभ्य रचयितृत्वं तद्वन्नामप्रपञ्चं प्रत्यपीत्याह -

रूपप्रपञ्चस्यापीति ।

कारणगतप्रकाशनशक्तिः कार्येऽनुप्रविशति, तयैव शक्त्या शब्दस्यापि सर्वप्रकाशकत्वमिति नियमः कुत इत्याशङ्क्याह । शब्दे शक्त्यन्तरोत्पत्तावसदुत्पत्तिगौरवं च स्यादित्याह -

नासत इति ।

।। षष्ठवर्णककाशिका ।।