प्रमाणप्रतिज्ञामितिइत्यर्थ इति ।
शास्त्रमुदाहरतेति ।
यतो वा इमानीत्यादिशास्त्रमुदाहरताउदाहरतामिति सूत्रकारेणेत्यर्थः ।
तदुदाहृतमिति ।
पूर्वसूत्रे शास्त्रमुदाहृतमिति । तत् सर्वज्ञं सर्वशक्ति ब्रह्मेति प्रमाणं न भवति । अनुमानस्य कारणमात्रविषयत्वेन सर्वज्ञब्रह्मरूपविशेषविषयत्वाभावात् इत्यर्थः ।
प्रतिप्रपञ्चमिति ।
प्रतिकार्यमित्यर्थः ।
तद्ब्रह्मेत्युपस्कारोऽपि न सम्भवतीत्याह -
लोके चेति ।
इदं सूत्रमिति ।
जन्मादिसूत्रमित्यर्थः ।
व्याख्यानान्तरेणेति ।
सर्वकारणत्वात् सर्वज्ञमिति द्वितीयसूत्रोक्तव्याख्यानान्तरेणेत्यर्थः । इति परानन्दपरिज्ञानपरितृप्तपरमहंसपरिव्राजकाचार्य श्रीमत् श्री ज्ञानोत्तमभगवत्पूज्यपादशिष्येणोत्तमज्ञयतिवरेण विरचितायां पञ्चपादिकावक्तव्यकाशिकायां तृतीयं सूत्रम् । ।। इति सप्तमवर्णककाशिका ।।