पञ्चपादिका
वक्तव्यकाशिका
 

अथ सप्तमं वर्णकम्

अथ वा यथोक्तमृग्वेदादीत्यादिना

सूत्रस्य प्रमाणप्रतिज्ञामर्थान्तरमाह - अपेक्षितत्वात्कथं पुनरेकस्य सूत्रस्यार्थद्वयम् ? सूत्रत्वादेवतथा पौराणिकाः — ‘अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्अस्तोभमनवद्यं सूत्रं सूत्रविदो विदुः’ ॥ इतिविश्वतोमुखमिति नानार्थतामाह - अतोऽलङ्कार एव सूत्राणां यदनेकार्थता नामननु पूर्वसूत्रे शास्त्रमुदाहरता ब्रह्मावगमे शास्त्रं प्रमाणं प्रतिज्ञातमेवसत्यमेतत्सूत्रबलेन तदुदाहृतम् ; अन्यथा सूत्रे शास्त्रोपादानाभावादनुमानाशङ्कायांयतः सर्वज्ञात्सर्वशक्तेः कारणाज्जगतो जन्मादि भवति, तद् ब्रह्मेति वाक्यशेषःइत्यस्योपस्कारस्याप्रमाणत्वप्रसङ्गःप्रतिप्रपञ्चं पृथक्कारणजन्मताया अपि सम्भवात् सर्वज्ञत्वसर्वशक्तित्वासिद्धेः, लोके जगत्कारणे ब्रह्मशब्दप्रयोगादर्शनात्अतोजन्माद्यस्य यतः’ ‘शास्त्रप्रमाणकमि’त्येतावदिदं सूत्रं सदसन्दिग्धमनुमानशङ्कानिवृत्तेः पृथक्करणं प्रपञ्चान्तःपातिनः शास्त्रस्यापि हेतुत्वेन सर्वज्ञत्वं सुसम्पादमिति व्याख्यानान्तरेण कथयितुम्

इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां ब्रह्मणः शास्त्रप्रमाणकत्वं नाम सप्तमं वर्णकं समाप्तम् ॥

प्रमाणप्रतिज्ञामितिइत्यर्थ इति ।

शास्त्रमुदाहरतेति ।

यतो वा इमानीत्यादिशास्त्रमुदाहरताउदाहरतामिति सूत्रकारेणेत्यर्थः ।

तदुदाहृतमिति ।

पूर्वसूत्रे शास्त्रमुदाहृतमिति । तत् सर्वज्ञं सर्वशक्ति ब्रह्मेति प्रमाणं न भवति । अनुमानस्य कारणमात्रविषयत्वेन सर्वज्ञब्रह्मरूपविशेषविषयत्वाभावात् इत्यर्थः ।

प्रतिप्रपञ्चमिति ।

प्रतिकार्यमित्यर्थः ।

तद्ब्रह्मेत्युपस्कारोऽपि न सम्भवतीत्याह -

लोके चेति ।

इदं सूत्रमिति ।

जन्मादिसूत्रमित्यर्थः ।

व्याख्यानान्तरेणेति ।

सर्वकारणत्वात् सर्वज्ञमिति द्वितीयसूत्रोक्तव्याख्यानान्तरेणेत्यर्थः । इति परानन्दपरिज्ञानपरितृप्तपरमहंसपरिव्राजकाचार्य श्रीमत् श्री ज्ञानोत्तमभगवत्पूज्यपादशिष्येणोत्तमज्ञयतिवरेण विरचितायां पञ्चपादिकावक्तव्यकाशिकायां तृतीयं सूत्रम् । ।। इति सप्तमवर्णककाशिका ।।