अथाष्टमं वर्णकम्
कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते ? यावताऽऽम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामिति क्रियापरत्वं शास्त्रस्य प्रदर्शितम् । अतो वेदान्तानामानर्थक्यमक्रियार्थत्वात् ॥
यद्यपि प्रदर्शितानि वाक्यानि सर्वज्ञत्वादिगुणकं ब्रह्म जगत्कारणं प्रतिपादयन्ति ; तथाऽपि तत्र परिनिष्ठिते वस्तुनि प्रत्यक्षादीनामपि प्रवृत्तिसम्भवात् तैरसंवादे न प्रामाण्यं प्रतिलभन्ते ॥
प्रदर्शितमिति ।
सूत्रेणेत्यर्थः । प्रदर्शितानि वाक्यानि यद्यपि प्रतिपादयन्तीत्यन्वयः ।
प्रमाणान्तरस्य विरोधित्वेनोदये विरोधादविरोधेनोदये अनुवादादनुदयेऽर्थाभावात् अप्रामाण्यं वाक्यस्येत्यभिप्रेत्याह -
परिनिष्ठित इति ।
असाध्यस्वभाववस्तुनीत्यर्थः ।