असंवादशब्देन प्रमाणान्तराणामनुदय उच्यते ।
सत्यमिति ।
अनपेक्षत्वमस्त्येवेत्यर्थः ।
असंवादादिति ।
समतलमिति ।
विसंवादाच्चेति भावः ।
तथा इहापि स्यादिति ।
अहं मनुष्य इति प्रत्यक्षेण विसंवादाच्च ब्रह्मैकत्वश्रुतिः अप्रमाणं स्यादित्यर्थः ।
पुरुषार्थशून्यत्वादप्रामाण्यमिति ।
अपुरुषार्थे तात्पर्याभावादिति भावः ।
हानोपादानविषयाविति ।
प्रवृत्तिन्निवृत्तिसाध्यावित्यर्थः ।
न सिद्ध इति ।
सिद्धत्वात् क्रियात्वेन साध्यत्वमक्रियाशेषत्वात् क्रियाशेषतया साध्यत्वं च नास्तीत्यर्थः ।
उपपन्ना वेति ।
अतो वेदान्तवाक्यानामपि विधिसंस्पर्शमन्तरेण अर्थवत्तानुपपन्ना इत्यर्थः ।
अविषये
ब्रह्मणीत्यर्थः ।
शब्दमात्रस्येति ।
विधिरहितवाक्यस्येत्यर्थः ।
शास्त्रस्येति ।
विधिपदयुक्तयुक्ते इतिवाक्यस्येत्यर्थः ।
नानवगतार्थप्रकाशन इति ।
अतोऽवगतविषयत्वे वक्तव्ये प्रमाणान्तरेणावगत्यभावात् विधिस्पर्शाभावाच्च न ब्रह्मणि प्रामाण्यमिति भावःभावमिति ।
संवादाभावादिति ।
जनदितिजगत्कारणं सर्वज्ञं ब्रह्मैवेत्यत्र प्रमाणान्तरसंवादाभावादित्यर्थः ।
सत्यमिति ।
न कारणे सर्वज्ञत्वादिप्रतिपादनेन विधिशेषत्वं वाक्यस्योच्यते भाष्यकारेण, किन्त्वारोपितरूपकथनेनेत्यर्थः ।
उपासनाप्रकरणादपि भिन्नप्रकरणत्वात् न वेदान्तानामुपासनाविधिशेषत्वमिति तत्राह -
एवं चाध्ययनविधीति ।
वेदान्तैवेदान्ते इतिर्ब्रह्मसाक्षात्काराभावे तेषां निष्फलत्वमिति तत्राह -
फलं चेति ।