पञ्चपादिका
वक्तव्यकाशिका
 

ननु अपौरुषेयत्वात् तज्जन्यं स्वार्थपरिच्छेदेऽनपेक्षं कथमप्रमाणम् ? सत्यम् ; तथाऽपि यथा चाक्षुषं स्पर्शनगोचरचित्रनिम्नोन्नतज्ञानं तेनासंवादादप्रमाणं, तथेहापि स्यात्किं पुरुषार्थशून्यत्वादप्यप्रामाण्यम्पुरुषार्थो हि नाम सुखावाप्तिर्दुःखपरिहारश्चतौ सिद्धत्वाद् हानोपादानविषयौ सिद्धवस्तुन्यक्रियाशेषे सम्भवतःततो

क्वचिद् वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टोपपन्ना वा

किं प्रत्यक्षाद्यविषये शब्दमात्रस्य प्रामाण्यम्शास्त्रस्यैष स्वभावो यदनवगतार्थावबोधकत्वम्शब्दमात्रस्य पुनः प्रमाणान्तरगृहीतार्थप्रकाशन एव सामर्थ्यं दृष्टं, नानवगतार्थप्रकाशनेतस्मादनर्थका वेदान्ताः ; तेषां ब्रह्मणि प्रामाण्यमितिअत एववेदोषरा वेदान्ताःइति केषाञ्चिदुद्गारःयत्पुनर्भाष्यकारेण कर्तृदेवतास्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानां प्रकरणान्तरभयादनभ्युपगम्य स्ववाक्यगतोपासनाकर्मपरत्वमुक्तं, तदयुक्तम् ; उपासनाविधिशेषत्वेऽपि संवादाभावाद् जगत्कारणे सर्वज्ञत्वादिसिद्धिःसत्यम् ; अनुमानतोऽनिर्दिष्टविशेषे तस्मिन्नवगते समारोपितैर्धर्मैरुपासनानियोगः सेत्स्यतिएवं चाध्ययनविधिग्राहितानां वेदान्तानामेकान्ततो नानर्थक्यं भविष्यतीत्यभिप्रायःफलं तत्र कल्प्यमार्थवादिकम्

असंवादशब्देन प्रमाणान्तराणामनुदय उच्यते ।

सत्यमिति ।

अनपेक्षत्वमस्त्येवेत्यर्थः ।

असंवादादिति ।

समतलमिति ।

विसंवादाच्चेति भावः ।

तथा इहापि स्यादिति ।

अहं मनुष्य इति प्रत्यक्षेण विसंवादाच्च ब्रह्मैकत्वश्रुतिः अप्रमाणं स्यादित्यर्थः ।

पुरुषार्थशून्यत्वादप्रामाण्यमिति ।

अपुरुषार्थे तात्पर्याभावादिति भावः ।

हानोपादानविषयाविति ।

प्रवृत्तिन्निवृत्तिसाध्यावित्यर्थः ।

न सिद्ध इति ।

सिद्धत्वात् क्रियात्वेन साध्यत्वमक्रियाशेषत्वात् क्रियाशेषतया साध्यत्वं च नास्तीत्यर्थः ।

उपपन्ना वेति ।

अतो वेदान्तवाक्यानामपि विधिसंस्पर्शमन्तरेण अर्थवत्तानुपपन्ना इत्यर्थः ।

अविषये

ब्रह्मणीत्यर्थः ।

शब्दमात्रस्येति ।

विधिरहितवाक्यस्येत्यर्थः ।

शास्त्रस्येति ।

विधिपदयुक्तयुक्ते इतिवाक्यस्येत्यर्थः ।

नानवगतार्थप्रकाशन इति ।

अतोऽवगतविषयत्वे वक्तव्ये प्रमाणान्तरेणावगत्यभावात् विधिस्पर्शाभावाच्च न ब्रह्मणि प्रामाण्यमिति भावःभावमिति ।

संवादाभावादिति ।

जनदितिजगत्कारणं सर्वज्ञं ब्रह्मैवेत्यत्र प्रमाणान्तरसंवादाभावादित्यर्थः ।

सत्यमिति ।

न कारणे सर्वज्ञत्वादिप्रतिपादनेन विधिशेषत्वं वाक्यस्योच्यते भाष्यकारेण, किन्त्वारोपितरूपकथनेनेत्यर्थः ।

उपासनाप्रकरणादपि भिन्नप्रकरणत्वात् न वेदान्तानामुपासनाविधिशेषत्वमिति तत्राह -

एवं चाध्ययनविधीति ।

वेदान्तैवेदान्ते इतिर्ब्रह्मसाक्षात्काराभावे तेषां निष्फलत्वमिति तत्राह -

फलं चेति ।