पञ्चपादिका
वक्तव्यकाशिका
 

तत्तु समन्वयात्

तत् ब्रह्म सर्वज्ञत्वादिगुणकं वेदान्तशास्त्रात्प्रतीयत इति प्रतिजानीते

हेतुं चाचष्टे

समन्वयादिति

तत्र तात्पर्येण वेदान्तवाक्यानां समन्वयादित्यर्थःसम्यगन्वयः समन्वयःअथ केयं सम्यक्ताऽन्वयस्य ? पदानां परस्परानवच्छिन्नार्थानामनन्याकाङ्क्षाणामव्यतिरिक्तैकरसप्रातिपदिकार्थमात्रान्वयः ; ‘सोऽयमि’त्यादि वाक्यस्थपदानामिवप्रकृष्टप्रकाशशब्दयोरिव चन्द्रपदाभिधेयार्थकथनेनतथा व्यक्तिविशेषः, कश्चिच्चन्द्रप्रातिपदिकाभिधेयः केनचित् पृष्टःअस्मिन् ज्योतिर्मण्डले कश्चन्द्रो नाम ? ’ इति तस्य प्रतिवचनंप्रकृष्टप्रकाशश्चन्द्रःइतितदेवं प्रतिवचनं भवति यदि यथा चन्द्रपदेनोक्तं, तथाऽऽभ्यामपि पदाभ्यामुच्येतएवं सति नीलोत्पलवदयुतसिद्धपरस्परावच्छिन्नविशेषणविशेष्यभावेनाप्यन्वयो दुर्लभः

कुतः पृथक्सिद्धः क्रियाकारकलक्षणः सम्बन्धः ? तथाविधान्युदाहरति

सदेव सोम्येदमग्र इत्यादीनि

ननु जन्मादिसूत्रोदाहरणेष्वेव प्रामाण्यं दर्शनीयं, किमुदाहरणान्तरेण ? बाढम् ; अस्त्यत्राभिप्रायो भाष्यकारस्यतत्र ब्रह्मणो लक्षणं वक्तव्यमिति तटस्थस्यैव ब्रह्मणो निरूपकाणि वाक्यान्युदाहृतानि, इह तुतत्त्वमसी’ति जीवस्य ब्रह्मात्मतावगतिपर्यन्तानि वेदान्तवाक्यानि तटस्थमेव जगत्कारणं प्रतिपाद्य पर्यवस्यन्ति, इत्यतस्तथाभूतान्येव वाक्यान्युदाहृतानि — ‘सदेव सोम्येदमग्र आसीदि’त्येवमादीनियत्पुनः सिद्धे वस्तुनि प्रत्यक्षादिसम्भवात् तदभावे मिथ्यात्वाशङ्कायामप्रामाण्यमिति, तत् रूपाद्यभावाद् नेन्द्रियगोचर इति प्रत्युक्तम्

सूत्रं व्याचष्टे -

तत् ब्रह्म सर्वज्ञत्वादीत्यादिना ।

सूत्रगतसमित्यंशं व्याचष्टे -

सम्यगन्वय इत्यादिना ।

पदानामनुगम इति सम्बन्धः ।

गवानयनवाक्यस्थपदानां शुक्लो घट इति वाक्यस्थपदानां यथा भिन्नपदार्थसंसर्गविषयतयान्वयः न तथेह पदानामन्वय इत्याह -

अनवच्छिन्नार्थानामिति ।

अभिन्नार्थानामित्यर्थः ।

अभिन्नार्थनिष्ठत्वेऽप्युद्भिद्यागशब्दयोरिव न नियोगापेक्षयान्वय इत्याह -

अनन्याकाङ्क्षाणामिति ।

पदार्थानामपि क्रियाकारकाणामिवान्वयं व्यावर्तयति -

अव्यतिरिक्तेति ।

शुक्लघटादीनामिवान्वयं व्यावर्तयति -

एकरसेति ।

विभक्त्यभिधेयकारकत्वादिभेदो न प्रमेयमनुप्रविशतीत्याह -

प्रातिपदिकेति ।

प्रथमाविभक्त्यर्थभूतलिङ्गसङ्ख्यापरिमापरिणामेतिणादीनामप्यनुप्रवेशो नास्तीत्याह -

मात्रेति ।

अनुगमः अन्वय इत्यर्थः ।

अपर्यायशब्दवाच्यत्वात् भिन्नार्थत्वं स्यादित्याशङ्क्य ब्रह्मात्मैकत्वपरवाक्यजातस्यैकरसार्थवृत्तितायामुदाहरणमाह -

सोऽयमित्यादीति ।

सत्यज्ञानादिब्रह्मस्वरूपपरवाक्यजातस्यैकरसार्थवृत्तितायामुदाहरणमाह -

प्रकृष्टप्रकाशशब्दयोरिवेति ।

तयोरेकार्थनिष्ठतामेव दर्शयति -

तथा च व्यक्तिविशेष इति ।

तदेवं प्रतिवचनं भवतीति ।

प्रकाशसामान्यस्य प्रकर्षगुणस्य चन्द्रप्रातिपदिकाभिधेयत्वाभावात् । प्रकाशप्रकर्षशब्दयोः स्वाभिमताभिधेयत्वास्वाभिमतघेयत्वेतिभावात् । प्रकाशसामान्यं प्रकर्षगुणं च परित्यज्य लक्षणया प्रकाशव्यक्तौ चन्द्रप्रातिपदिकार्थे वृत्तिरित्यभ्युपगमे प्रतिवचनं भवतीत्यर्थः ।

गुणगुण्यन्वयः क्रियाकारकान्वयो वा किं न स्यादित्यत आह -

एवं च सतीति ।

परस्परावच्छिन्नेति ।

परस्पराभिन्नेत्यर्थः । एकमेवाद्वितीयमित्यादिभेदप्रतिषेधादिति भावः ।

तथाविधानीति ।

एकरसार्थनिष्ठानीत्यर्थः ।

उदाहरणेष्वेवेति ।

यतो वा इमानीत्यादिवाक्येष्वेवेत्यर्थः ।

उदहरणान्तरेणेति ।

सदेवेत्यादिवाक्येनेत्यर्थः ।

तटस्थस्यैवेति ।

जीवात् पृथग्भूतस्यैवेत्यर्थः ।

इह त्विति ।

समन्वयसूत्र इत्यर्थः ।

तथाभूतान्येवेति ।

जीवस्य ब्रह्मात्मतावगतिपर्यन्तान्येवेत्यर्थः ।