तत्तु समन्वयात्
तत् ब्रह्म सर्वज्ञत्वादिगुणकं वेदान्तशास्त्रात्प्रतीयत इति प्रतिजानीते ।
हेतुं चाचष्टे —
समन्वयादिति ।
तत्र तात्पर्येण वेदान्तवाक्यानां समन्वयादित्यर्थः ॥ सम्यगन्वयः समन्वयः । अथ केयं सम्यक्ताऽन्वयस्य ? पदानां परस्परानवच्छिन्नार्थानामनन्याकाङ्क्षाणामव्यतिरिक्तैकरसप्रातिपदिकार्थमात्रान्वयः ; ‘सोऽयमि’त्यादि वाक्यस्थपदानामिव । प्रकृष्टप्रकाशशब्दयोरिव चन्द्रपदाभिधेयार्थकथनेन । तथा च व्यक्तिविशेषः, कश्चिच्चन्द्रप्रातिपदिकाभिधेयः केनचित् पृष्टः ‘अस्मिन् ज्योतिर्मण्डले कश्चन्द्रो नाम ? ’ इति तस्य प्रतिवचनं ‘प्रकृष्टप्रकाशश्चन्द्रः’ इति । तदेवं प्रतिवचनं भवति यदि यथा चन्द्रपदेनोक्तं, तथाऽऽभ्यामपि पदाभ्यामुच्येत । एवं च सति नीलोत्पलवदयुतसिद्धपरस्परावच्छिन्नविशेषणविशेष्यभावेनाप्यन्वयो दुर्लभः ।
कुतः पृथक्सिद्धः क्रियाकारकलक्षणः सम्बन्धः ? तथाविधान्युदाहरति —
सदेव सोम्येदमग्र इत्यादीनि ॥
ननु जन्मादिसूत्रोदाहरणेष्वेव प्रामाण्यं दर्शनीयं, किमुदाहरणान्तरेण ? बाढम् ; अस्त्यत्राभिप्रायो भाष्यकारस्य । तत्र ब्रह्मणो लक्षणं वक्तव्यमिति तटस्थस्यैव ब्रह्मणो निरूपकाणि वाक्यान्युदाहृतानि, इह तु ‘तत्त्वमसी’ति जीवस्य ब्रह्मात्मतावगतिपर्यन्तानि वेदान्तवाक्यानि न तटस्थमेव जगत्कारणं प्रतिपाद्य पर्यवस्यन्ति, इत्यतस्तथाभूतान्येव वाक्यान्युदाहृतानि — ‘सदेव सोम्येदमग्र आसीदि’त्येवमादीनि । यत्पुनः सिद्धे वस्तुनि प्रत्यक्षादिसम्भवात् तदभावे मिथ्यात्वाशङ्कायामप्रामाण्यमिति, तत् रूपाद्यभावाद् नेन्द्रियगोचर इति प्रत्युक्तम् ॥
सूत्रं व्याचष्टे -
तत् ब्रह्म सर्वज्ञत्वादीत्यादिना ।
सूत्रगतसमित्यंशं व्याचष्टे -
सम्यगन्वय इत्यादिना ।
पदानामनुगम इति सम्बन्धः ।
गवानयनवाक्यस्थपदानां शुक्लो घट इति वाक्यस्थपदानां यथा भिन्नपदार्थसंसर्गविषयतयान्वयः न तथेह पदानामन्वय इत्याह -
अनवच्छिन्नार्थानामिति ।
अभिन्नार्थानामित्यर्थः ।
अभिन्नार्थनिष्ठत्वेऽप्युद्भिद्यागशब्दयोरिव न नियोगापेक्षयान्वय इत्याह -
अनन्याकाङ्क्षाणामिति ।
पदार्थानामपि क्रियाकारकाणामिवान्वयं व्यावर्तयति -
अव्यतिरिक्तेति ।
शुक्लघटादीनामिवान्वयं व्यावर्तयति -
एकरसेति ।
विभक्त्यभिधेयकारकत्वादिभेदो न प्रमेयमनुप्रविशतीत्याह -
प्रातिपदिकेति ।
प्रथमाविभक्त्यर्थभूतलिङ्गसङ्ख्यापरिमापरिणामेतिणादीनामप्यनुप्रवेशो नास्तीत्याह -
मात्रेति ।
अनुगमः अन्वय इत्यर्थः ।
अपर्यायशब्दवाच्यत्वात् भिन्नार्थत्वं स्यादित्याशङ्क्य ब्रह्मात्मैकत्वपरवाक्यजातस्यैकरसार्थवृत्तितायामुदाहरणमाह -
सोऽयमित्यादीति ।
सत्यज्ञानादिब्रह्मस्वरूपपरवाक्यजातस्यैकरसार्थवृत्तितायामुदाहरणमाह -
प्रकृष्टप्रकाशशब्दयोरिवेति ।
तयोरेकार्थनिष्ठतामेव दर्शयति -
तथा च व्यक्तिविशेष इति ।
तदेवं प्रतिवचनं भवतीति ।
प्रकाशसामान्यस्य प्रकर्षगुणस्य चन्द्रप्रातिपदिकाभिधेयत्वाभावात् । प्रकाशप्रकर्षशब्दयोः स्वाभिमताभिधेयत्वास्वाभिमतघेयत्वेतिभावात् । प्रकाशसामान्यं प्रकर्षगुणं च परित्यज्य लक्षणया प्रकाशव्यक्तौ चन्द्रप्रातिपदिकार्थे वृत्तिरित्यभ्युपगमे प्रतिवचनं भवतीत्यर्थः ।
गुणगुण्यन्वयः क्रियाकारकान्वयो वा किं न स्यादित्यत आह -
एवं च सतीति ।
परस्परावच्छिन्नेति ।
परस्पराभिन्नेत्यर्थः । एकमेवाद्वितीयमित्यादिभेदप्रतिषेधादिति भावः ।
तथाविधानीति ।
एकरसार्थनिष्ठानीत्यर्थः ।
उदाहरणेष्वेवेति ।
यतो वा इमानीत्यादिवाक्येष्वेवेत्यर्थः ।
उदहरणान्तरेणेति ।
सदेवेत्यादिवाक्येनेत्यर्थः ।
तटस्थस्यैवेति ।
जीवात् पृथग्भूतस्यैवेत्यर्थः ।
इह त्विति ।
समन्वयसूत्र इत्यर्थः ।
तथाभूतान्येवेति ।
जीवस्य ब्रह्मात्मतावगतिपर्यन्तान्येवेत्यर्थः ।