शब्दस्य प्रामाण्यं किं सम्बन्धग्रहणाय शब्दार्थं प्रमाणान्तरविषयमपेक्षते, किं वा शब्दस्य प्रमाणान्तरसम्भिन्नार्थविषयत्वादपेक्षत इति विकल्प्य प्रथमपक्षोऽङ्गीकृत इत्याह -
यद्यपि शब्दमात्रस्येति ।
प्रयोगो दृष्टः इतिइति शब्दो न दृश्यते ।
उत्तमवृद्धस्य प्रयोगो दृष्ट इत्यर्थः ।
द्वितीयपक्षोऽनुपपन्न इत्याह -
व्युत्पत्ता तु कथमिति ।
केवलार्थशब्दस्य शक्तिं गृह्णातीति भावः ।
तदेवोपपादयति -
श्रोतृव्यवहारो हीति ।
स च श्रोतुरिति ।
केवलार्थज्ञाननिमित्तः, श्रोतुर्व्यवहारः, न तु वक्तुर्ज्ञानसम्भिन्नार्थविषयज्ञाननिमित्तः अतः परिशुद्धपरिशुद्धिरिति इत्यर्थः ।
ज्ञानान्तरसिद्धार्थावबोधकत्वमिति ।
वक्तृज्ञानविशिष्टार्थावबोधकत्वं शब्दस्य नावगतमित्यर्थः ।
तेनानवगम्यैवेति ।
अर्थविषयवक्तृज्ञानमर्थविशेषणतयाऽनवगम्यैव केवलार्थे न शब्दस्य सम्बन्धावगम इत्यर्थः ।
यथावगमं चेति ।
बालो यदा श्रोता भवति तदा तस्य केवलार्थे शब्दाद्विज्ञानोत्पत्तिर्भवति न वक्तुर्ज्ञानविशिष्टार्थ इत्यर्थः । बालोऽव्युत्पन्नः पश्चादुत्तमवृद्धो यदा भवति तदा ज्ञानान्तरेणार्थमवगम्य विवक्षित्वा परस्मै प्रयुङ्क्ते तत्र प्रमाणान्तरविवक्षयोः उपयोगमिति मध्यमवृद्धस्य शब्दात् ज्ञानोत्पत्तावर्थविशेषणतया शाब्दज्ञानं प्रति विषयत्वेन तयोरुपयोगं न प्रतिपद्यत इत्यर्थः ।
प्रमाणान्तरगृहीतार्थप्रकाशन इति ।
प्रमाणान्तरविशिष्टार्थप्रकाशन इत्यर्थः ।
कथमप्रामाण्यमाशङ्क्येतेति ।
अनपेक्षत्वात् प्रमाणान्तरसंवादादिना नाप्रामाण्यमित्यर्थः ।
प्रमेयगतदोषादेव चित्रनिम्नोन्नतादिज्ञानवत् ब्रह्मज्ञानमपि मिथ्येति नेत्याह -
प्रमेयस्येत्यादिना ।
विषयस्य ज्ञानहेतुत्वाभावे कथं ज्ञानस्य विषयाकारतेति तत्राह -
शब्दस्यैवेति ।
तदेकनिष्ठत्वेनेति ।
शब्दसामर्थ्यस्यार्थनिष्ठत्वात् ज्ञानस्यार्थाकारतेत्यर्थः ।
तर्हि संवादार्थं ब्रह्मणि प्रमाणान्तरं वक्तव्यमिति नेत्याह -
न संवादलक्षणमिति ।
बोधलक्षणमिति ।
अज्ञातार्थबोधगम्यं प्रामाण्यमित्यर्थः ।
स्वरूपवाक्यानामपीति ।
ब्रह्मात्मैक्यप्रतिपादकवाक्यानामपीत्यर्थः ।