पञ्चपादिका
वक्तव्यकाशिका
 

ननु इन्द्रियागोचरत्वादेव प्रत्यक्षाद्यविषयत्वान्न शब्दमात्रस्य तत्र प्रामाण्यमित्युक्तम् , उच्यते ; यद्यपि शब्दमात्रस्य प्रत्यक्षादिविषय एव प्रयोगो दृष्टः, व्युत्पत्ता तु कथं व्युत्पद्यते ? इति वाच्यम्श्रोतृव्यवहारो हि मूलं बालानां व्युत्पत्तेः श्रोतुर्ज्ञानान्तरानिमित्ततापरिशुद्धः शब्दसामर्थ्यावगमहेतुःअतो प्रतिपत्तुर्ज्ञानान्तरासिद्धार्थावबोधकत्वं सामर्थ्यावगमकालेऽवगतम्तेनानवगम्यैव तद्विषयं ज्ञानं सामर्थ्यावगमः, यथाऽवगमं विज्ञानोत्पत्तिःयदा पुनर्व्युत्पन्नः स्वयं प्रयुयुक्षते परप्रतिपत्तये, तदा ज्ञानान्तरसन्निधापितं स्वसाक्षिकं विवक्षन् सामर्थ्यावगमकालेऽपि तयोः सत्तां प्रतिपद्यते केवलं, ज्ञानोत्पत्तौ तयोरुपयोगम्तस्मान्न शब्दस्य प्रमाणान्तरगृहीतार्थप्रकाशने सामर्थ्यं व्युत्पत्तिकालेऽवगतं, किन्तु चक्षुरादिवदन्यनिरपेक्षो यथावगतसामर्थ्यश्च शब्दो विज्ञानं जनयतितस्मान्न प्रमेयस्य प्रत्यक्षादिविषयत्वं शब्दस्य विज्ञानजनन उपयुज्यतेअपि चापौरुषेये शब्दे चक्षुषीव विज्ञानोत्पत्तावनपेक्षे कथमप्रामाण्यमाशङ्क्येत ? ननु उक्तमाशङ्काकारणं स्पर्शनगोचरचित्रनिम्नोन्नतविषयस्य चाक्षुषस्य प्रत्ययस्य तत्संवादाभावादप्रमाणत्वं, तत्साधूक्तम् ; अदुष्टकरणत्वादस्य, तस्य तदभावात्तथाहि शब्दस्तावदपौरुषेयत्वाददुष्टःप्रमेयस्य पुनर्ज्ञानहेतुत्वे प्रमाणमस्ति ; शब्दस्यैव तदेकनिष्ठत्वेन तन्नियमात् , चित्रस्य तु चाक्षुषज्ञाने सामग्र्यन्तःपातिनः श्यामादिरेखासन्निवेशविशेषो दोषः ; तदभावे तिमिराभाव इव सम्यग्दर्शनोत्पत्तेःअतः प्रवर्तमानमपि प्रमाणं संवादकमेव, इति नाप्रामाण्यमावहति संवादलक्षणं प्रामाण्यम् , अपि तु बोधलक्षणमिति प्रमाणविदां स्थितिःअतो यथैव विधिवाक्यानां स्वार्थमात्रे प्रामाण्यम् , एवं स्वरूपवाक्यानामपि ; अनवगतार्थपरिच्छेदसामान्यात्

शब्दस्य प्रामाण्यं किं सम्बन्धग्रहणाय शब्दार्थं प्रमाणान्तरविषयमपेक्षते, किं वा शब्दस्य प्रमाणान्तरसम्भिन्नार्थविषयत्वादपेक्षत इति विकल्प्य प्रथमपक्षोऽङ्गीकृत इत्याह -

यद्यपि शब्दमात्रस्येति ।

प्रयोगो दृष्टः इतिइति शब्दो न दृश्यते ।

उत्तमवृद्धस्य प्रयोगो दृष्ट इत्यर्थः ।

द्वितीयपक्षोऽनुपपन्न इत्याह -

व्युत्पत्ता तु कथमिति ।

केवलार्थशब्दस्य शक्तिं गृह्णातीति भावः ।

तदेवोपपादयति -

श्रोतृव्यवहारो हीति ।

स च श्रोतुरिति ।

केवलार्थज्ञाननिमित्तः, श्रोतुर्व्यवहारः, न तु वक्तुर्ज्ञानसम्भिन्नार्थविषयज्ञाननिमित्तः अतः परिशुद्धपरिशुद्धिरिति इत्यर्थः ।

ज्ञानान्तरसिद्धार्थावबोधकत्वमिति ।

वक्तृज्ञानविशिष्टार्थावबोधकत्वं शब्दस्य नावगतमित्यर्थः ।

तेनानवगम्यैवेति ।

अर्थविषयवक्तृज्ञानमर्थविशेषणतयाऽनवगम्यैव केवलार्थे न शब्दस्य सम्बन्धावगम इत्यर्थः ।

यथावगमं चेति ।

बालो यदा श्रोता भवति तदा तस्य केवलार्थे शब्दाद्विज्ञानोत्पत्तिर्भवति न वक्तुर्ज्ञानविशिष्टार्थ इत्यर्थः । बालोऽव्युत्पन्नः पश्चादुत्तमवृद्धो यदा भवति तदा ज्ञानान्तरेणार्थमवगम्य विवक्षित्वा परस्मै प्रयुङ्क्ते तत्र प्रमाणान्तरविवक्षयोः उपयोगमिति मध्यमवृद्धस्य शब्दात् ज्ञानोत्पत्तावर्थविशेषणतया शाब्दज्ञानं प्रति विषयत्वेन तयोरुपयोगं न प्रतिपद्यत इत्यर्थः ।

प्रमाणान्तरगृहीतार्थप्रकाशन इति ।

प्रमाणान्तरविशिष्टार्थप्रकाशन इत्यर्थः ।

कथमप्रामाण्यमाशङ्क्येतेति ।

अनपेक्षत्वात् प्रमाणान्तरसंवादादिना नाप्रामाण्यमित्यर्थः ।

प्रमेयगतदोषादेव चित्रनिम्नोन्नतादिज्ञानवत् ब्रह्मज्ञानमपि मिथ्येति नेत्याह -

प्रमेयस्येत्यादिना ।

विषयस्य ज्ञानहेतुत्वाभावे कथं ज्ञानस्य विषयाकारतेति तत्राह -

शब्दस्यैवेति ।

तदेकनिष्ठत्वेनेति ।

शब्दसामर्थ्यस्यार्थनिष्ठत्वात् ज्ञानस्यार्थाकारतेत्यर्थः ।

तर्हि संवादार्थं ब्रह्मणि प्रमाणान्तरं वक्तव्यमिति नेत्याह -

न संवादलक्षणमिति ।

बोधलक्षणमिति ।

अज्ञातार्थबोधगम्यं प्रामाण्यमित्यर्थः ।

स्वरूपवाक्यानामपीति ।

ब्रह्मात्मैक्यप्रतिपादकवाक्यानामपीत्यर्थः ।