ननु विधिवाक्यानामेव प्रामाण्यं युक्तम् ; क्रियार्थत्वादाम्नायस्य, न ; इतरेतराश्रयत्वात् । विधिवाक्यानामेव हि प्रामाण्ये सिद्धे क्रियार्थत्वमाम्नायस्य सिद्ध्येत् , क्रियार्थत्वे च सिद्धे तेषामेव प्रामाण्यमितीतरेतराश्रयत्वं स्यात् , न ह्येकमप्यन्यतः सिद्धम् ; अतो यदवगमयत्याम्नायस्तदर्थः सः । तस्माद् यथाकार्यमवगमयन्स्तदर्थः, एवमैकात्म्यमप्यवगमयंस्तदर्थो भवितुमर्हति । प्रतीतिकृतत्वात्प्रामाण्यस्य, प्रतीतिस्तु कार्यैकात्म्ययोस्तुल्या । प्रत्यक्षादिष्वप्येतदेव प्रमाणवृत्तं, यदनवगतमवगम्यते ॥
सूत्रवचनविरोध इति चोदयति -
ननु विधिवाक्यानामेवेति ।
सूत्रकारप्रामाण्यादेवाम्नायस्य क्रियार्थत्वमिति नेत्याह -
न ह्येकमपीति ।
प्रवर्तकं प्रमाणमिति लक्षणाद्विधिवाक्यमेव प्रमाणं न बोधकं प्रमाणमिति नेत्याह -
प्रत्यक्षादिष्वपीति ।