आह — युक्तं प्रत्यक्षादीनां तावत् प्रामाण्यम् ; अपेक्षान्तराभावात् , आम्नायस्य त्वध्ययनविधिनोपादापितस्य न पुनः पुरुषार्थमप्राप्य पर्यवसानं लभ्यते ; विधानानर्थक्यप्रसङ्गात् । तस्मादैकात्म्यवाक्यानां स्वार्थमात्रनिष्ठता न युक्ता ; उच्यते, पुरुषो ह्येतावदपेक्षते, इष्टं मे स्यादनिष्टं मे मा भूदिति, न त्वित्थमन्यथा वेति । न चास्य स्वयमीष्टे । द्विविधं चेष्टं प्रेप्सति, किञ्चित्प्राप्यम् ; यथा ग्रामादि । किञ्चित्प्राप्तमपि ; यथा भ्रान्त्या हस्तगतमेव विस्मृतसुवर्णादि । अनिष्टमपि द्विविधं परिजिहीर्षति किञ्चित् परिहार्यं — यथागर्तादि किञ्चित्परिहृतमपि ; भ्रान्त्या यथा रज्ज्वादि सर्पादिबुद्धिगृहीतम् । तत्र प्राप्यपरिहार्ययोः साधनज्ञानायत्तत्वात्पुरुषार्थस्य विधिप्रतिषेधावर्थवन्तौ । इतरयोस्तावद् भ्रान्तिमात्रव्यवहितत्वान्न तदपनयादन्यत् पुरुषार्थत्वेनापेक्षते । तदपनयश्च तत्त्वज्ञानाद् भवति नान्यथा । एवमपि लभ्यमानं पुरुषार्थमनुमन्यत एव पुरुषः, सुतरां चाभिनन्दति । सधनायत्तो ह्यायासाल्लभ्येत, ज्ञानायत्ते त्वायासोऽपि परिह्रियते । तेनानेकानर्थकलुषितमिवात्मानं मन्यमानस्य भ्रान्तस्य सर्वानर्थशून्यात्मतत्त्वप्रतिपादनादेव पुरुषार्थसिद्धेरैकात्म्यवाक्यानां स्वार्थमात्रनिष्ठत्वेऽपि न विध्यानर्थक्यप्रसङ्गः । तस्मात् सिद्धं ब्रह्मणः शास्त्रप्रमाणत्वम् ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां वेदान्तानां ब्रह्मणि समन्वयनिरूपणं नामाष्टमं वर्णकं समाप्तम् ॥
ननु भिन्नमेव प्रमाणलक्षणं प्रत्यक्षादिषु वस्तुमात्रावबोधः प्रमाणलक्षणं, प्रवृत्तिनिवृत्ती तु वस्तुस्वभावानुरोधिन्यौ, न प्रमाणप्रमाणामितिफलं, शब्दे तु पुनः प्रवृत्तिनिवृत्तिफलपर्यन्त एव प्रमाणव्यापारः श्रोतुः पुरुषार्थमुद्दिश्य शब्दप्रयोगात् प्रवृत्तिनिवृत्तिशून्ये भूते वस्तुनि न शब्दप्रामाण्यमित्याह -
आह युक्तमित्यादिना ।
तावतेति ।
अज्ञातार्थबोधकत्वादेवेत्यर्थः ।
अपेक्षान्तराभावादिति ।
विषयस्य पुरुषार्थत्वापेक्षाभावादित्यर्थः ।
विध्यानर्थक्येति ।
अध्ययनविध्यानर्थक्यप्रसङ्गादित्यर्थः ।
न त्विनन्वित्थमितित्थमन्यथा वेति ।
प्रवृत्तिनिवृत्तिसाध्यमेव स्यादसाध्यं मे स्यादिति वा नापेक्षत इत्यर्थः ।
पुरुषार्थश्चेत् साध्य एवेति निश्चिनुयादिति तत्राह -
न चास्येति ।
ननु सर्वः साध्य एव पुरुषार्थः, न तु सिद्धस्वभावः प्रेप्सागोचरत्वाभावादिति तत्राह -
द्विविधं चेष्टमितिद्विविध इति ।
किञ्चित्प्राप्तमपीत्यत्र भ्रान्त्या अप्राप्तं प्रेप्सतीत्यन्वयः । भ्रान्त्या अपरिहृतं परिजिहीर्षतीत्यन्वयः ।
प्राप्यपरिहार्ययोरिति ।
ग्रामगर्तयोरित्यर्थः ।
साधनज्ञानायत्तत्वादिति ।
साधनज्ञानतदनुष्ठानायत्तत्वादित्यर्थः ।
इतरयोरिति ।
प्राप्तसुवर्णपरिहृतसर्पयोरित्यर्थः ।
एवमपीति ।
ज्ञानमात्रेणलभ्यमानमपीत्यर्थः ।
साधनसाध्यात् ज्ञानलभ्यस्यातिशयेन पुरुषार्थतामा -
सुतरां चाभिनन्दतीति ।
ब्रह्मात्मैकत्वे प्रतिपाद्यमाने ज्ञानमात्रलभ्यः पुरुषार्थोऽस्तीत्याह -
अनेकानर्थकलुषितमिवेति ।
न विध्यानर्थक्यप्रसङ्ग इति ।
नाध्ययनविध्यानर्थक्यप्रसङ्ग इत्यर्थः । इति परानन्दइत्यर्धमेव दृश्यते || इति अष्टमवर्णककाशिका ||