पञ्चपादिका
वक्तव्यकाशिका
 

आहयुक्तं प्रत्यक्षादीनां तावत् प्रामाण्यम् ; अपेक्षान्तराभावात् , आम्नायस्य त्वध्ययनविधिनोपादापितस्य पुनः पुरुषार्थमप्राप्य पर्यवसानं लभ्यते ; विधानानर्थक्यप्रसङ्गात्तस्मादैकात्म्यवाक्यानां स्वार्थमात्रनिष्ठता युक्ता ; उच्यते, पुरुषो ह्येतावदपेक्षते, इष्टं मे स्यादनिष्टं मे मा भूदिति, त्वित्थमन्यथा वेति चास्य स्वयमीष्टेद्विविधं चेष्टं प्रेप्सति, किञ्चित्प्राप्यम् ; यथा ग्रामादिकिञ्चित्प्राप्तमपि ; यथा भ्रान्त्या हस्तगतमेव विस्मृतसुवर्णादिअनिष्टमपि द्विविधं परिजिहीर्षति किञ्चित् परिहार्यंयथागर्तादि किञ्चित्परिहृतमपि ; भ्रान्त्या यथा रज्ज्वादि सर्पादिबुद्धिगृहीतम्तत्र प्राप्यपरिहार्ययोः साधनज्ञानायत्तत्वात्पुरुषार्थस्य विधिप्रतिषेधावर्थवन्तौइतरयोस्तावद् भ्रान्तिमात्रव्यवहितत्वान्न तदपनयादन्यत् पुरुषार्थत्वेनापेक्षतेतदपनयश्च तत्त्वज्ञानाद् भवति नान्यथाएवमपि लभ्यमानं पुरुषार्थमनुमन्यत एव पुरुषः, सुतरां चाभिनन्दतिसधनायत्तो ह्यायासाल्लभ्येत, ज्ञानायत्ते त्वायासोऽपि परिह्रियतेतेनानेकानर्थकलुषितमिवात्मानं मन्यमानस्य भ्रान्तस्य सर्वानर्थशून्यात्मतत्त्वप्रतिपादनादेव पुरुषार्थसिद्धेरैकात्म्यवाक्यानां स्वार्थमात्रनिष्ठत्वेऽपि विध्यानर्थक्यप्रसङ्गःतस्मात् सिद्धं ब्रह्मणः शास्त्रप्रमाणत्वम्

इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां वेदान्तानां ब्रह्मणि समन्वयनिरूपणं नामाष्टमं वर्णकं समाप्तम् ॥

ननु भिन्नमेव प्रमाणलक्षणं प्रत्यक्षादिषु वस्तुमात्रावबोधः प्रमाणलक्षणं, प्रवृत्तिनिवृत्ती तु वस्तुस्वभावानुरोधिन्यौ, न प्रमाणप्रमाणामितिफलं, शब्दे तु पुनः प्रवृत्तिनिवृत्तिफलपर्यन्त एव प्रमाणव्यापारः श्रोतुः पुरुषार्थमुद्दिश्य शब्दप्रयोगात् प्रवृत्तिनिवृत्तिशून्ये भूते वस्तुनि न शब्दप्रामाण्यमित्याह -

आह युक्तमित्यादिना ।

तावतेति ।

अज्ञातार्थबोधकत्वादेवेत्यर्थः ।

अपेक्षान्तराभावादिति ।

विषयस्य पुरुषार्थत्वापेक्षाभावादित्यर्थः ।

विध्यानर्थक्येति ।

अध्ययनविध्यानर्थक्यप्रसङ्गादित्यर्थः ।

न त्विनन्वित्थमितित्थमन्यथा वेति ।

प्रवृत्तिनिवृत्तिसाध्यमेव स्यादसाध्यं मे स्यादिति वा नापेक्षत इत्यर्थः ।

पुरुषार्थश्चेत् साध्य एवेति निश्चिनुयादिति तत्राह -

न चास्येति ।

ननु सर्वः साध्य एव पुरुषार्थः, न तु सिद्धस्वभावः प्रेप्सागोचरत्वाभावादिति तत्राह -

द्विविधं चेष्टमितिद्विविध इति ।

किञ्चित्प्राप्तमपीत्यत्र भ्रान्त्या अप्राप्तं प्रेप्सतीत्यन्वयः । भ्रान्त्या अपरिहृतं परिजिहीर्षतीत्यन्वयः ।

प्राप्यपरिहार्ययोरिति ।

ग्रामगर्तयोरित्यर्थः ।

साधनज्ञानायत्तत्वादिति ।

साधनज्ञानतदनुष्ठानायत्तत्वादित्यर्थः ।

इतरयोरिति ।

प्राप्तसुवर्णपरिहृतसर्पयोरित्यर्थः ।

एवमपीति ।

ज्ञानमात्रेणलभ्यमानमपीत्यर्थः ।

साधनसाध्यात् ज्ञानलभ्यस्यातिशयेन पुरुषार्थतामा -

सुतरां चाभिनन्दतीति ।

ब्रह्मात्मैकत्वे प्रतिपाद्यमाने ज्ञानमात्रलभ्यः पुरुषार्थोऽस्तीत्याह -

अनेकानर्थकलुषितमिवेति ।

न विध्यानर्थक्यप्रसङ्ग इति ।

नाध्ययनविध्यानर्थक्यप्रसङ्ग इत्यर्थः । इति परानन्दइत्यर्धमेव दृश्यते || इति अष्टमवर्णककाशिका ||