पञ्चपादिका
वक्तव्यकाशिका
 

अथ नवमं वर्णकम्

अत्रापरे प्रत्यवतिष्ठन्ते

यद्यपि शास्त्रेण प्रमीयते ब्रह्म ; तथाऽपि विधिसंस्पर्शिना, तद्रहितेनकस्मादेवम् ? अन्यथा शब्दप्रयोगानुपपत्तेःपुरुषेच्छासमुत्थापितो हि शब्दप्रयोगःसा चेष्टानिष्टप्राप्तिपरिहारविषया पारम्पर्येणापि सुखदुःखे विहायेष्टानिष्टे सम्भवतः विस्मृतसुवर्णारोपितसर्परशनाप्रतिपत्ताविव तदनन्तरं शास्त्रादपि ब्रह्मात्मप्रतिपत्तौ सुखावाप्तिर्दुःखपरिहारश्च दृश्यते ; पूर्ववत् संसारित्वोपलब्धेः, प्रतीत्युत्तरकालं ध्यानोपदेशात्तस्मात् सन्तु नाम लोके विधिरहितान्यपि पुरुषार्थपर्यन्तानि वाक्यानि, वेदे तु तद्रहितानां तत्पर्यन्ततातस्माद् यद्यपि जिज्ञास्यवैलक्षण्यं धर्मब्रह्मजिज्ञासयोः सिद्धसाध्यविषयत्वेन ; तथाऽपि सोऽन्वेष्टव्यः’ (छा. उ. ८-७-१) विजिज्ञासितव्यः’ (छा. उ. ८-७-१) इत्यादि विधिषु कोऽसावात्मेत्याकाङ्क्षायां सर्व एव ब्रह्मस्वरूपपरः पदसमन्वयस्तत्समर्पकत्वेनोपयुक्तः, स्वतन्त्रमेव ब्रह्म प्रतिपादयितुमलम्अतो विधीयमानज्ञानकर्मकारकत्वेनैव ब्रह्म प्रतिपाद्यत इतियः पुनःतस्मात् प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमि’ति भाष्ये पूर्वपक्षोपसंहारः, तत्र प्रतिपत्तिशब्दः सर्व एव मनोव्यापारः प्रमाणात्मक इतरो वा ब्रह्मसंस्पर्शित्वेन विधेयः कैश्चित् कथञ्चित् कल्पितः, तस्य सर्वस्य सङ्ग्रहार्थो द्रष्टव्यः

लोके पदानां योग्येतरसंसृष्टस्वार्थप्रतिपादनसामर्थ्यमङ्गीकृत्य भूतेऽप्यर्थे प्रामाण्योपगमेन लौकिकवचसां च भूतेऽर्थे प्रमाणान्तरानुसारेण प्रयोजनपर्यन्तप्रामाण्यमङ्गीकृत्य वेदवचसां तु प्रमाणान्तराभावात् विध्यनुसारेणैव प्रयोजनपर्यन्तं प्रामाण्यं वक्तव्यमित्याशङ्क्य नेति प्रतिपादितम् । इदानीं कार्यसंसृष्टस्वार्थे शब्दसामर्थ्यमिति मन्वाना कार्यशेषतयैव भूतेऽप्यर्थे प्रामाण्यमिति प्रत्यवतिष्ठन्ते इत्याह -

अत्रापर इति ।

विधिसंस्पर्शिना शास्त्रेणेत्यन्वयः ।

लोके पदानां योग्येतरसंसृष्टस्वार्थे सामर्थ्यग्रहणात् तदनुसारेण वेदेऽपि भूतार्थप्रतिपादकत्वसम्भवात् कुतो विधिसंस्पर्श इत्याक्षिपति -

कस्मादेवमिति ।

वेदान्तानां ज्ञानमात्रसाध्यप्रयोजनपर्यन्तत्वासम्भवात् प्रवृत्तिनिवृत्तिसाध्यप्रयोजनपर्यन्तत्वाय कार्यशेषतया ब्रह्मप्रतिपादनं स्यादित्यभिप्रेत्य लोकेऽपि कार्यपरतयैव शब्दप्रयोग इति दर्शयति -

अन्यथेति ।

कार्यपरत्वाभाव इत्यर्थः । श्रोतुः पुरुषार्थेन भवितव्यम् । तत्साधयितुं श्रोतुःश्रोतुमिति प्रवृत्तिनिवृत्तिभ्यां भवितव्यमिति येयं प्रयोक्तुरिच्छा तया समुत्थापितः शब्दप्रयोगः । अतः कार्यपरतयैव शब्दप्रयोग इत्यर्थः ।

सा च इष्टानिष्टेति ।

श्रोतुरिष्टानिष्टेत्यर्थः ।

ननु प्रवृत्तिनिवृत्ती एव इष्टानिष्टप्राप्तिपरिहारौ, अतो न प्रवृत्तिनिवृत्त्यर्थं कार्यपरतया शब्दप्रयोग इत्याशङ्क्य परम्परया सुखदुःखप्राप्तिनिवृत्तिहेतुत्वात् प्रवृत्तिनिवृत्त्योः इष्टत्वम् अनिष्टपरिहारत्वं चेत्याह -

न च पारम्पर्येणेति ।

प्रवृत्तिनिवृत्तिसाध्यनियोगनिष्पाद्यं चेत् ब्रह्मज्ञानफलं तदा वेदान्तानां कार्यपरता स्यात् । न तथा ज्ञानमात्रायत्तत्वात् फलस्येति, नेत्याह -

न च विस्मृतेति ।

अपि च शाब्दज्ञानव्यतिरेकेण पुनर्ब्रह्मात्मनि ज्ञानसाधनान्तरविधानात् । प्रयत्नान्तरसाध्यं प्रयोजनं न ज्ञानमात्रसाध्यमित्याह -

प्रतीत्युत्तरकालं चेति ।

शाब्दप्रतीत्युत्तरकालमित्यर्थः ।

ननु लोके भूतार्थनिष्ठतया प्रयोजनपर्यन्तानि वाक्यानि दृश्यन्ते । तद्वदिहापि स्यादिति, नेत्याह -

तस्मात् सन्तु नाम लोके इति ।

ब्रह्मजिज्ञासेति सूत्रेण जिज्ञास्यब्रह्मणः सिद्धरूपतया धर्माद्विलक्षणस्य निर्देशात् न ब्रह्मप्रतिपादकं वाक्यं विधिपरमिति नेत्याह -

तस्माद्यद्यपीति ।

तथापि प्रतिपत्त्यादिविधिशेषतयैव ब्रह्म जिज्ञास्यमित्यर्थः ।

कथं ब्रह्मपराणां विधिशेषतया समन्वय इति तदाह -

सोऽन्वेष्टव्य इति ।