स्मृतिसन्तानो नाम प्रमाणावगते वस्तुनि तत एव प्रमाणात् सजातीयप्रत्ययप्रवाहः वस्तुप्रस्तुत्वेतितत्त्व विषयः स विधेयो मा भूत् । ध्यानं नाम वस्तुतत्त्वमनपेक्ष्यारोपितविषयतया मनःसङ्कल्पप्रवाहः, स तु विधेयः स्यादित्याह -
अस्तु तर्हीति ।
अदृष्टफलस्यानित्यत्वप्रसङ्गात् , दृष्टफलत्वे वक्तव्ये तदपि न दृश्यत इत्याह -
किमर्थमिति ।
साक्षात्करणस्य प्रमाणजन्यत्वादेव अदृष्टसाध्यफलत्वासम्भवमभिप्रेत्य दृष्टफलत्वमसम्भवेन दूषयति -
न तस्य सम्भव इति ।
ध्यानाभ्यासप्रचयसामर्थ्यात् विनष्टपुत्राद्यापरोक्ष्यं दृश्यत इति चोदयति -
ननु दृष्टमिति ।
न तद्ध्यायमानमिति ।
न तद् ध्येयं मृतपुत्रादिमत्पुत्रादीति, तस्येदानीमविद्यमानत्वादित्यर्थः ।