विध्युद्देशसामर्थ्यादेव ध्येयसाक्षात्करणं ध्यानफलं गम्यत इति चोदयति -
ननु द्रष्टव्य इति ।
दर्शनमनूद्य दर्शनाय निदिध्यासितव्य इति विधीयत इत्यर्थः ।
उक्तउत्तमे तदितिमेतदिति ।
ध्यानेनाअवगतेतिपगतदोषे चित्ते शब्दादेव साक्षात्करणमिति विधिवाक्यस्याभिप्राय इति भावः ।
विधेयसद्भावमङ्गीकृत्य शब्दानां ध्यानविधिपरत्वे ब्रह्मात्मैकत्वं न सिध्यतीत्याह -
अथापि भवत्विति ।
ध्येयस्य तथात्व इति ।
ब्रह्मात्मैकत्वस्य सत्यत्व इत्यर्थः ।
ध्यानविधिपरत्वेऽप्यवान्तरवाक्ये ब्रह्म प्रमीयत इत्याह -
सत्यं तथापीति ।
तत्र हिहीनेति न तथात्व इति ।
वज्रहस्तः पुरन्दर इत्यस्मिन्नर्थे बाधकत्रपमाणेतिप्रमाणभावो नास्तीत्यर्थः ।
तस्माद्विधिपरत्वे नास्ति वस्तुसिद्धिरिति सर्वविधिभेदेष्वतिदिशति -
पूर्वोक्तेष्वपीति ।