पञ्चपादिका
वक्तव्यकाशिका
 

ननुद्रष्टव्यःइति दर्शनमनूद्यनिदिध्यासितव्यःइति ध्यानं दर्शनफलं विधीयते, उक्तमेतद् दृष्टाधिकारो विधिरसम्भावितदृष्टफलो भवतीति हि ध्यानं ध्येयसाक्षाद्भावहेतुः क्वचिद् दृष्टम्अथापि भवतु नाम ध्यानाद् ध्येयसाक्षाद्भावो ध्येयस्य तथात्वे किं प्रमाणम् ? शब्दस्तावत्साक्षात्करणोपायोपासनविधाने पर्यवसितो तत्सद्भावे, सत्यम् ; तथाऽपि तत्त्वं सिध्यति वक्ष्यमाणेन देवताविग्रहवत्त्वन्यायेनविषम उपन्यासः तत्र हि तथात्वे साधकं बाधकं वेति प्रतीतिशरणैस्तथाऽभ्युपेयते ; तथेह सर्वस्यात्मत्वे ; प्रत्यक्षादिविरोधात् , आरोपितरूपेणापि ध्यानोपपत्तेःपूर्वोक्तेष्वपि ज्ञानविधिपक्षेष्वनयैव दिशा वस्तुतथात्वसिद्धिर्निराकार्या

विध्युद्देशसामर्थ्यादेव ध्येयसाक्षात्करणं ध्यानफलं गम्यत इति चोदयति -

ननु द्रष्टव्य इति ।

दर्शनमनूद्य दर्शनाय निदिध्यासितव्य इति विधीयत इत्यर्थः ।

उक्तउत्तमे तदितिमेतदिति ।

ध्यानेनाअवगतेतिपगतदोषे चित्ते शब्दादेव साक्षात्करणमिति विधिवाक्यस्याभिप्राय इति भावः ।

विधेयसद्भावमङ्गीकृत्य शब्दानां ध्यानविधिपरत्वे ब्रह्मात्मैकत्वं न सिध्यतीत्याह -

अथापि भवत्विति ।

ध्येयस्य तथात्व इति ।

ब्रह्मात्मैकत्वस्य सत्यत्व इत्यर्थः ।

ध्यानविधिपरत्वेऽप्यवान्तरवाक्ये ब्रह्म प्रमीयत इत्याह -

सत्यं तथापीति ।

तत्र हिहीनेति न तथात्व इति ।

वज्रहस्तः पुरन्दर इत्यस्मिन्नर्थे बाधकत्रपमाणेतिप्रमाणभावो नास्तीत्यर्थः ।

तस्माद्विधिपरत्वे नास्ति वस्तुसिद्धिरिति सर्वविधिभेदेष्वतिदिशति -

पूर्वोक्तेष्वपीति ।