पञ्चपादिका
वक्तव्यकाशिका
 

यत्पुनः कैश्चिदुच्यतेशाब्दज्ञानादन्यदेव ज्ञानान्तरमलौकिकं वेदान्तेषु कर्तव्यत्वेन विधीयत इति, तत्र वदामः, तत्पुनः किंसाधनं किङ्कर्म चेति वक्तव्यम् ह्यनवगतकर्मकारकं ज्ञानं विधातुं शक्यम् ; अवगते तस्मिन् विधानानर्थक्यम्साधनमपि विहितम् ; तेन विना साकाङ्क्षं वचनमनर्थकं भवेत् । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती’त्यादिना वचनेन साधनं वेदानुवचनादि विहितमेवेति चेत् , प्रमाणान्तरस्य तर्हि प्रमाणं शब्दो नात्मतत्त्वस्य, नैतदुपपद्यते ; कार्यगम्यं हि प्रामाण्यं विधिगम्यम्तदुक्तम् — ‘गुणाद्वाऽप्यभिधानं स्यात्सम्बन्धस्याशास्त्रहेतुत्वादि’तितदेवमयुक्तमेतत् , विधिसमन्वये शास्त्रप्रमाणत्वं ब्रह्मणः

शाब्दज्ञानादन्यदेवेति ।

शाब्दज्ञानतदभ्यासादन्यदेवेत्यर्थः ।

अन्यदिति ।

भिन्नमित्यर्थः ।

ज्ञानान्तरमिति ।

भिन्नजातीयमित्यर्थः ।

विधीयमानज्ञानस्यालौकिकत्वादेव प्रत्यक्षादिसाधनजन्यत्वायोगादलौकिककरणेतिकर्तव्यताविषयविधानैः सह दर्शनं विधेयं तन्न दृश्यत इत्याह -

तत्पुनः किं साधनमित्यादिना ।

तेन विनेति ।

किमर्थं, केन, कथं कुर्यादित्यपेक्षासु केनेत्यपेक्षनिवर्तकसाधनाभिधानाभावे साकाङ्क्षमित्यर्थः ।

साधनं वेदानुवचनादि विहितमेवेति चेदिति ।

वेदानुवचनादीतिकर्तव्यतानुगृहीतं श्रवणमनन निदिध्यासनाख्यसाधनं विहितमित्यर्थः ।

प्रमाणान्तरस्य तर्हीति ।

ब्रह्मण्यपरोक्षफलं विज्ञानं प्रमाणान्तरं तत्कर्तव्यतायाः शब्दः प्रमाणम् इतिइतिशब्दो न दृश्यतेचेन्न, ब्रह्मणि प्रमाणं ननेति न दृश्यते शब्दः किन्तु ब्रह्म प्रमाणे प्रमाणमित्युक्तं स्यात् , ततो वरंवप्ररमिति ब्रह्मण्येव प्रमाणमित्यङ्गीकरणमिति भावः ।

विधेयज्ञानविषयतया विधिविषयत्वमन्तरेण न ब्रह्ममात्रे प्रामाण्यं युक्तमिति, नेत्याह -

कार्यगम्यमिति ।

अर्थनिश्चयाख्यकार्यगम्यमित्यर्थः ।

ननु लौकिकं प्रामाण्यं कार्यगम्यमेव, शास्त्रगतं तु विषयस्य विधिविधित्वमितिगम्यमित्याशङ्क्य शास्त्रेऽपि लौकिकमेव प्रामाण्यं युक्तमलौकिककल्पनादित्याह -

तदुक्तं गुणाद्वेति ।

लौकिकानां शब्दानां मुख्यार्थाभिधानमुखेन वैदिकार्थप्रतिपादनासम्भवे किं वेदे पृथक् सम्बन्धं गृह्णीमः, किं वा वृत्त्यन्तदद्वारेणापि लौकिकादेव सम्बन्धादर्थं प्रतिप्रपाद्यामह इतिपद्यामह इति विशयेविशयये इति लौकिकमेव प्रतिपत्तुं युक्तमलौकिककल्पनादिति सूत्रार्थः ।

विधिसमन्वय इति ।

विधेयज्ञानविषयतया ब्रह्मणो विधिनाविधिता इति समन्वय इत्यर्थः ।