जीवब्रह्मणोर्वास्तवैक्यविषयसम्यज्ज्ञानविधिनिष्ठत्वे ब्रह्मणि प्रामाण्यायोगात् ब्रह्मण्येव प्रमाणं शब्द इत्युक्तमिदानीं जीवब्रह्मणोर्भेदमङ्गीकृत्य अहं ब्रह्मास्मीत्यारोपितैक्यविषयोपासनं स्वर्गादिवत् साध्यरूपमोक्षफलं वेदान्तेषु विधीयत इति पक्षनिरासाय उत्तरं भाष्यमित्याह -
अथाप्यथ यदतयत इति इत्यादिना ।
`अथ यदतः पर’ इत्यपि श्रुतिरूपासनाविधिपरत्वात् न ब्रह्मणि प्रमाणमित्याशङ्क्य प्रपञ्चास्पृष्टब्रह्मणः प्रमाणान्तराविषयत्वादेव तद्विरोधाभावाद्देवताधिकरणस्थन्यायसम्भवात् प्रमाणमित्याह -
देवताविग्रहेति ।
प्रदेशान्तरापत्तिर्ब्रह्मप्राप्तिर्मोक्ष उपासनाफलमित्यत्र श्रुतिमाह -
तथा च श्रुतिरिति ।
तदारोहन्ति किं तत् ब्रह्मोद्दिश्य अर्चिरादिना मार्गेण आरोहन्तीत्यर्थः ।
श्रुतिः कृतकत्वादनित्यमित्यनित्यत्वानुमानविरुद्धा कथमनावृत्तिं साधयेदित्यत आह -
न ह्येष इति ।
मोक्ष इत्यर्थः ।
न त्वनुमानागमयोर्विरुद्धाव्यभिचारित्वात् संशयहेतुत्वमिति तत्राह -
शब्दगम्यस्येति ।
अनुमानादागमो बलवानित्यर्थः । श्रुतितो न्यायतश्चेत्यत्र ‘विद्ययाऽमृतमश्नुते’ इत्यादि श्रुतिर्विवक्षिता, पुनरावृत्तौ पुनर्बन्धः स्यादभ्युदयनिःश्रेयसयोर्भेदप्रसिद्धिविरोधश्च स्यादित्यादिन्यायो विवक्षितः ।
नित्यसिद्धस्यापि क्रियासाध्यत्वं किं न स्यादिति चोदयति -
कथमिति ।
मोक्षस्य विधेयक्रियासाध्यत्वे दोषमाह -
यदि सन्ध्योपासनवदित्यादिना ।
उपचयापचयात् क्षयिष्णुशरीरे ज्ञानमात्रलभ्यं मोक्षं प्रत्याख्यायेति योजना ।