पञ्चपादिका
वक्तव्यकाशिका
 

अथापिअथ यदतः परो दिवो ज्योतिरि’ति प्रपञ्चातिरिक्तब्रह्माभ्युपगमे देवताविग्रहवत्त्वन्यायसम्भवात् मोक्षकामस्य ब्रह्मोपासनं विधीयते, तथा श्रुतिःविद्यया तदारोहन्ती’ति, साध्यत्वेऽप्यन्तवत्त्वम् ; शब्दगम्यत्वादनावृत्तेः पुनरावर्तते’ (छा. उ. ८-५-१) इति ह्येष तर्कगम्यः, येन तर्केणास्य तत्त्वं व्यवस्थाप्येत, शब्दगम्यस्य तु शब्दादेव तत्त्वव्यवस्थेति मन्वानस्योत्तरमाह भाष्यकारः

कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादिति

वस्तुसङ्ग्रहवाक्यमेतत्

अस्यैव प्रपञ्चः

अतो कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्येतदन्तं भाष्यम्

अस्याममर्थःसङ्क्षेपतः श्रुतितो न्यायतश्च मोक्षस्य नित्यसिद्धत्वप्रतीतेर्न क्रियासाध्यो मोक्ष इतिकथम् ? यदि सन्ध्योपासनवन्मानसं ब्रह्मकर्मकमुपासनं नाम धर्मो मोक्षफलः स्वर्गादिफलयागवद्विधीयते, तथा सति शरीरवतैव तत्फलं भोक्तव्यम् इति अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८-१२-१) इत्यशरीरमोक्षानुवादो योग्यप्रियाप्रियस्पर्शनाभावानुवादश्च निरालम्बनौ स्याताम् चाशरीरत्वमेव धर्मकार्यम् ; स्वाभाविकत्वात्तस्यतेनानुष्ठेयविलक्षणं मोक्षाख्यमशरीरत्वं स्वभावसिद्धं नित्यमिति सिद्धम्

जीवब्रह्मणोर्वास्तवैक्यविषयसम्यज्ज्ञानविधिनिष्ठत्वे ब्रह्मणि प्रामाण्यायोगात् ब्रह्मण्येव प्रमाणं शब्द इत्युक्तमिदानीं जीवब्रह्मणोर्भेदमङ्गीकृत्य अहं ब्रह्मास्मीत्यारोपितैक्यविषयोपासनं स्वर्गादिवत् साध्यरूपमोक्षफलं वेदान्तेषु विधीयत इति पक्षनिरासाय उत्तरं भाष्यमित्याह -

अथाप्यथ यदतयत इति इत्यादिना ।

`अथ यदतः पर’ इत्यपि श्रुतिरूपासनाविधिपरत्वात् न ब्रह्मणि प्रमाणमित्याशङ्क्य प्रपञ्चास्पृष्टब्रह्मणः प्रमाणान्तराविषयत्वादेव तद्विरोधाभावाद्देवताधिकरणस्थन्यायसम्भवात् प्रमाणमित्याह -

देवताविग्रहेति ।

प्रदेशान्तरापत्तिर्ब्रह्मप्राप्तिर्मोक्ष उपासनाफलमित्यत्र श्रुतिमाह -

तथा च श्रुतिरिति ।

तदारोहन्ति किं तत् ब्रह्मोद्दिश्य अर्चिरादिना मार्गेण आरोहन्तीत्यर्थः ।

श्रुतिः कृतकत्वादनित्यमित्यनित्यत्वानुमानविरुद्धा कथमनावृत्तिं साधयेदित्यत आह -

न ह्येष इति ।

मोक्ष इत्यर्थः ।

न त्वनुमानागमयोर्विरुद्धाव्यभिचारित्वात् संशयहेतुत्वमिति तत्राह -

शब्दगम्यस्येति ।

अनुमानादागमो बलवानित्यर्थः । श्रुतितो न्यायतश्चेत्यत्र ‘विद्ययाऽमृतमश्नुते’ इत्यादि श्रुतिर्विवक्षिता, पुनरावृत्तौ पुनर्बन्धः स्यादभ्युदयनिःश्रेयसयोर्भेदप्रसिद्धिविरोधश्च स्यादित्यादिन्यायो विवक्षितः ।

नित्यसिद्धस्यापि क्रियासाध्यत्वं किं न स्यादिति चोदयति -

कथमिति ।

मोक्षस्य विधेयक्रियासाध्यत्वे दोषमाह -

यदि सन्ध्योपासनवदित्यादिना ।

उपचयापचयात् क्षयिष्णुशरीरे ज्ञानमात्रलभ्यं मोक्षं प्रत्याख्यायेति योजना ।