तथापि कथञ्चित्परिणामि नित्यं स्यात् , स्यादपि कदाचिद्धर्मकार्यम् । इदन्तु कूटस्थनित्यं ब्रह्म जिज्ञास्यत्वेन प्रक्रान्तं, यत्स्वरूपावगमो जीवस्य मोक्षोऽभिप्रेयते । तत्र यदि हस्तगतविस्मृतसुवर्णादिवद् भ्रान्तिमात्रव्यवहितं मोक्षं प्रत्याख्याय, ब्रह्मविषयध्यानक्रियातो देवताविषययागादिवत्प्रीतिविशेषो भोग्यो मोक्षः कल्प्येत, ततस्तेष्वेव तारतम्यावस्थितेषु यागफलेष्वयमपि तथाभूतः स्यात् । ततः ‘तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इति लिङ्गदर्शनोपबृंहितन्यायावगतानित्यत्वो मोक्षः प्रसज्येत ।
न च तथाभ्युपगमो मोक्षवादिनाम् ।
अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्युपसंहारः ॥
लिङ्गदर्शनेति ।
तद्यथेति ।
लिङ्गप्रदर्शनेनोपप्रदर्शनरूपत्वान्यायेतिबृंहितन्यायात्मकोऽयमागमः । तेन सिद्धानित्यत्वो मोक्षः प्रसज्येतेत्यर्थः । न्यायेनावगतमनित्यत्वं यस्य मोक्षस्यासौ न्यायावगतानित्यत्व इति बहुव्रीहिः ।