पञ्चपादिका
वक्तव्यकाशिका
 

तथापि कथञ्चित्परिणामि नित्यं स्यात् , स्यादपि कदाचिद्धर्मकार्यम्इदन्तु कूटस्थनित्यं ब्रह्म जिज्ञास्यत्वेन प्रक्रान्तं, यत्स्वरूपावगमो जीवस्य मोक्षोऽभिप्रेयतेतत्र यदि हस्तगतविस्मृतसुवर्णादिवद् भ्रान्तिमात्रव्यवहितं मोक्षं प्रत्याख्याय, ब्रह्मविषयध्यानक्रियातो देवताविषययागादिवत्प्रीतिविशेषो भोग्यो मोक्षः कल्प्येत, ततस्तेष्वेव तारतम्यावस्थितेषु यागफलेष्वयमपि तथाभूतः स्यात्ततः तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इति लिङ्गदर्शनोपबृंहितन्यायावगतानित्यत्वो मोक्षः प्रसज्येत

तथाभ्युपगमो मोक्षवादिनाम्

अतो कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्युपसंहारः

लिङ्गदर्शनेति ।

तद्यथेति ।

लिङ्गप्रदर्शनेनोपप्रदर्शनरूपत्वान्यायेतिबृंहितन्यायात्मकोऽयमागमः । तेन सिद्धानित्यत्वो मोक्षः प्रसज्येतेत्यर्थः । न्यायेनावगतमनित्यत्वं यस्य मोक्षस्यासौ न्यायावगतानित्यत्व इति बहुव्रीहिः ।