वर्तमानाऽपदेशत्वेनेति ।
वर्तमानावर्तमानोपदेशेतिपदेशस्यैवमनुभूयत इत्यर्थः । विषयत्वादनुभवहेतुप्रमाणान्तरापेक्षणादित्यर्थः ।
प्रक्रियेति ।
सङ्केत इत्यर्थः ।
तद्यथेहेतद्यथेहीतिति ।
सामान्यश्रुत्यनुमानाभ्यां साध्यमोक्षस्यानित्यता दर्शिता । इदानीमपुनरावृत्तिविशेषणश्रुतिसामर्थ्यादेवान्तवत्वमाह -
किं च तेषामिहेति ।
अपि चाभ्युपेत्येति ।
अस्यायमर्थः । शब्दादवगते ब्रह्मणि तज्ज्ञानस्य सुखसंवेदनत्वाद्विधिमन्तरेण तदभ्यासेनतदभ्यासात् इत्यधिकं दृश्यते साक्षात्करणाख्यब्रह्मसंवेदनमपि स्वयमेव स्यात् , तस्मिन् ब्रह्मसंवेदने समुत्पन्नेऽनन्तरमेवाविद्यादिदोषनिवृत्तेर्युक्तम् ब्रह्मवेदनेन समानकालत्वं फलस्य, यदा तु पुनरुपासनैव अध्यारोपितात्मविषया विधीयमाना ब्रह्मसंवेदनमुच्यते, तदोपासनाजन्यनियोगफलस्य कालान्तरभावित्वात् न युक्तः समानकालतानिर्देशः, अतः शब्दाद्विदितस्य ब्रह्मणोऽपरोक्षज्ञानाय स्वयमेव प्रवृत्तेः, फलजननात् प्राक् न कार्यानुप्रवेशो ब्रह्मण इति ।
मध्ये कार्यान्तरमिति ।
ब्रह्मवेदनमोक्षफलयोर्मध्ये नियोगाख्यकार्यान्तरं वारयन्तीत्यर्थः ।
अतो न विदितस्येति ।
विदितस्य ब्रह्मणो विधेयक्रियायां कर्मत्वेन विनियोगो नास्तीत्यर्थः ।
प्रतिपेदप्रतिपद इति इति ।
सर्वात्मभावं प्राप्त इत्यर्थः ।
क्रियान्तरं
तत् अपूर्वं च वारयतीत्यर्थः ।
क्रियाया लक्षणत्वे हेतुत्वे च विवक्षिते शतृप्रत्ययः स्मर्यते । अत्र तु ज्ञानक्रियाया हेतुत्वाविवक्षायां शतृप्रत्यय इत्याह -
क्रियाया हेतुभूतादिति ।
उत्तरक्रियाहेतुभूतपूर्वक्रियावाचकधातोरुपरि शतृप्रत्ययो भवतीत्यर्थः ।
भवतु, हेतुत्वविवक्षायां शतृप्रत्ययः हेतुहेतुमतोर्मध्ये क्रियान्तराभावः कथमिति तत्राह -
क्रियायाश्चेति ।
क्षणिकत्वात् क्रियायाः कालान्तरभाविफलहेतुत्वं स्वरूपेण नास्ति, ततोऽव्यवहितफलं प्रति हेतुत्वान्मध्ये क्रियान्तरं नास्तीत्यर्थः ।
तिष्ठन् गायतीत्यत्र शतुर्लक्षणार्थत्वात् क्रियायाः गानहेतुत्वाभावात् । तिष्ठतिगायत्योर्मध्ये प्रत्यक्षसिद्धप्रत्यक्षसिद्धमितिक्रियान्तराभावाच्च वैषम्येऽपि शब्दतो मध्ये क्रियान्तराप्रतीतिर्दृष्टान्ते विवक्षितेत्याह -
अत्र न स्थितिक्रियासामर्थ्यादेवेति ।