पञ्चपादिका
वक्तव्यकाशिका
 

यत्पुनः पुनरावर्तते’ (छा. उ. ८-५-१) इति शास्त्रावगतं नित्यत्वं तर्केणापनेतुं युक्तमिति, तदयुक्तम् ; वर्तमानापदेशत्वेन तथाभावे प्रमाणापेक्षणात् कार्यस्य नित्यत्वे प्रमाणमस्ति ; परमाणूनां पाकजो गुणो नित्यत्वे नोदाहरणम् ; प्रक्रियामात्रसिद्धत्वात्किं तेषामिह पुनरावृत्तिः ; ‘इमं मानवमावर्तं नावर्तन्तेइति श्रुतिरिहेममिति विशेषणादस्मिन् कल्पेऽनावृत्तिं दर्शयति, नानवधिकामनावृत्तिम्अपि अभ्युपेत्य ब्रह्मणः क्रियानुप्रवेशं मोक्षस्यानित्यत्वदोष उक्तः, तु क्रियानुप्रवेशं क्षमते वेदान्तवाक्यगतः पदसमन्वयःतथा ब्रह्म वेद ब्रह्मैव भवती’त्याद्याः श्रुतयो ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति ; वेदनब्रह्मभवनयोरेककालत्वनिर्देशात्अतो विदितस्य क्रियायां विनियोगःतथा तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे’ (बृ. उ. १-४-१०) इति ब्रह्मदर्शन सर्वात्मभावयोरेककालत्वनिर्देशाद् मध्ये क्रियान्तरं वारयति पश्यन्निति शतृप्रत्ययः ; ‘लक्षणहेत्वोः क्रियायाःइति क्रियाया हेतुभूताद्धातोः शतृप्रत्ययस्मरणात् , क्रियायाश्चाव्यवहिते हेतुमति हेतुत्वात्यथातिष्ठन् गायती’ति तिष्ठतिगायत्योर्मध्ये क्रियान्तराभावः प्रतीयते, तद्वत्अत्र स्थितिक्रियासामर्थ्यादेव गीतिक्रियानिर्वृत्तिः, अपि तु प्रयत्नान्तरात्शब्दतो तयोर्मध्ये क्रियान्तरप्रतीतिरित्येतावतोदाहरणम्इह पुनर्न सर्वात्मभावस्य ब्रह्मदर्शनातिरेकेण प्रयत्नान्तरापेक्षा विद्यते

वर्तमानाऽपदेशत्वेनेति ।

वर्तमानावर्तमानोपदेशेतिपदेशस्यैवमनुभूयत इत्यर्थः । विषयत्वादनुभवहेतुप्रमाणान्तरापेक्षणादित्यर्थः ।

प्रक्रियेति ।

सङ्केत इत्यर्थः ।

तद्यथेहेतद्यथेहीतिति ।

सामान्यश्रुत्यनुमानाभ्यां साध्यमोक्षस्यानित्यता दर्शिता । इदानीमपुनरावृत्तिविशेषणश्रुतिसामर्थ्यादेवान्तवत्वमाह -

किं च तेषामिहेति ।

अपि चाभ्युपेत्येति ।

अस्यायमर्थः । शब्दादवगते ब्रह्मणि तज्ज्ञानस्य सुखसंवेदनत्वाद्विधिमन्तरेण तदभ्यासेनतदभ्यासात् इत्यधिकं दृश्यते साक्षात्करणाख्यब्रह्मसंवेदनमपि स्वयमेव स्यात् , तस्मिन् ब्रह्मसंवेदने समुत्पन्नेऽनन्तरमेवाविद्यादिदोषनिवृत्तेर्युक्तम् ब्रह्मवेदनेन समानकालत्वं फलस्य, यदा तु पुनरुपासनैव अध्यारोपितात्मविषया विधीयमाना ब्रह्मसंवेदनमुच्यते, तदोपासनाजन्यनियोगफलस्य कालान्तरभावित्वात् न युक्तः समानकालतानिर्देशः, अतः शब्दाद्विदितस्य ब्रह्मणोऽपरोक्षज्ञानाय स्वयमेव प्रवृत्तेः, फलजननात् प्राक् न कार्यानुप्रवेशो ब्रह्मण इति ।

मध्ये कार्यान्तरमिति ।

ब्रह्मवेदनमोक्षफलयोर्मध्ये नियोगाख्यकार्यान्तरं वारयन्तीत्यर्थः ।

अतो न विदितस्येति ।

विदितस्य ब्रह्मणो विधेयक्रियायां कर्मत्वेन विनियोगो नास्तीत्यर्थः ।

प्रतिपेदप्रतिपद इति इति ।

सर्वात्मभावं प्राप्त इत्यर्थः ।

क्रियान्तरं

तत् अपूर्वं च वारयतीत्यर्थः ।

क्रियाया लक्षणत्वे हेतुत्वे च विवक्षिते शतृप्रत्ययः स्मर्यते । अत्र तु ज्ञानक्रियाया हेतुत्वाविवक्षायां शतृप्रत्यय इत्याह -

क्रियाया हेतुभूतादिति ।

उत्तरक्रियाहेतुभूतपूर्वक्रियावाचकधातोरुपरि शतृप्रत्ययो भवतीत्यर्थः ।

भवतु, हेतुत्वविवक्षायां शतृप्रत्ययः हेतुहेतुमतोर्मध्ये क्रियान्तराभावः कथमिति तत्राह -

क्रियायाश्चेति ।

क्षणिकत्वात् क्रियायाः कालान्तरभाविफलहेतुत्वं स्वरूपेण नास्ति, ततोऽव्यवहितफलं प्रति हेतुत्वान्मध्ये क्रियान्तरं नास्तीत्यर्थः ।

तिष्ठन् गायतीत्यत्र शतुर्लक्षणार्थत्वात् क्रियायाः गानहेतुत्वाभावात् । तिष्ठतिगायत्योर्मध्ये प्रत्यक्षसिद्धप्रत्यक्षसिद्धमितिक्रियान्तराभावाच्च वैषम्येऽपि शब्दतो मध्ये क्रियान्तराप्रतीतिर्दृष्टान्ते विवक्षितेत्याह -

अत्र न स्थितिक्रियासामर्थ्यादेवेति ।