वेदान्तवाक्यजन्यब्रह्मात्मज्ञानस्य अविद्यानिवृत्तिफलश्रवणात् जीवब्रह्मणोर्वास्तवैक्यविषयप्रमाणज्ञानमेव स्यादारोपितैक्यविषयतया विधेयोपासनारूपत्वे क्रियात्वादेवाविद्यानिवृत्तिफलत्वायोग इत्याह -
किं च तस्मै मृदितकषायायेति ।
इदानीं तर्कशास्त्रानुसारेणापि मिथ्याज्ञाननिवृत्तिरेव तत्वज्ञानफलमतो न विधेयतया क्रियारूपं तत्त्वज्ञानमित्याह -
इतश्चैतदेवमिति ।
‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापातदनन्तभावादितियादपवर्ग’ इत्यादिसूत्रेण दर्शयन्ति इत्यर्थः ।
तर्कशास्त्रेषु मिथ्याज्ञाननिवर्तकं तत्त्वज्ञानमन्यदन्यदेव कथयन्ति । तत्र तत्त्वज्ञानमिदमेवेति कथं निर्णयः स्यात् , तन्निर्णयेऽपि तेनैव निवृत्तिः न तु विधेयक्रिययेति वा कथं निर्णय इति तत्राह -
मिथ्याज्ञानापायश्चेति ।
इन्द्रो मायाभिरिति श्रुतेर्वाद्यङ्गीकृततत्त्वज्ञानानामवि इतिमपि भेदज्ञानत्वादेव मिथ्याज्ञानत्वेन अनिवर्तकत्वादिति भावः ।