पञ्चपादिका
वक्तव्यकाशिका
 

किं तस्मै मृदितकषायाय तमसः पारं दर्शयती’त्याद्याः श्रुतयस्तमसो मिथ्याज्ञानस्य मोक्षव्यवधायिनोऽपनयनमात्रं दर्शयन्ति, मोक्षं क्रियासाध्यम्इतश्चैतदेवम् , अन्येऽपि न्यायविदो मिथ्याज्ञानापाये तदनन्तरं दुःखाभावं निर्वाणं दर्शयन्ति मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति, क्रियातःकथं गम्यते ? इन्द्रो मायाभिः पुरुरूप ईयते’ (बृ. उ. २-५-१९) इति मिथ्यैव भेदावभासः, तस्य प्रतिपक्षादभेदावभासादपनय इति गम्यते

वेदान्तवाक्यजन्यब्रह्मात्मज्ञानस्य अविद्यानिवृत्तिफलश्रवणात् जीवब्रह्मणोर्वास्तवैक्यविषयप्रमाणज्ञानमेव स्यादारोपितैक्यविषयतया विधेयोपासनारूपत्वे क्रियात्वादेवाविद्यानिवृत्तिफलत्वायोग इत्याह -

किं च तस्मै मृदितकषायायेति ।

इदानीं तर्कशास्त्रानुसारेणापि मिथ्याज्ञाननिवृत्तिरेव तत्वज्ञानफलमतो न विधेयतया क्रियारूपं तत्त्वज्ञानमित्याह -

इतश्चैतदेवमिति ।

‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापातदनन्तभावादितियादपवर्ग’ इत्यादिसूत्रेण दर्शयन्ति इत्यर्थः ।

तर्कशास्त्रेषु मिथ्याज्ञाननिवर्तकं तत्त्वज्ञानमन्यदन्यदेव कथयन्ति । तत्र तत्त्वज्ञानमिदमेवेति कथं निर्णयः स्यात् , तन्निर्णयेऽपि तेनैव निवृत्तिः न तु विधेयक्रिययेति वा कथं निर्णय इति तत्राह -

मिथ्याज्ञानापायश्चेति ।

इन्द्रो मायाभिरिति श्रुतेर्वाद्यङ्गीकृततत्त्वज्ञानानामवि इतिमपि भेदज्ञानत्वादेव मिथ्याज्ञानत्वेन अनिवर्तकत्वादिति भावः ।