ननु विधिक्रियाकर्म तावद्भवति ब्रह्म, ततः क्रियासम्बन्धे सम्भाविते भवति विधेरवसर इत्याशङ्क्याह —
न च विधिक्रियाकर्मत्वेनेत्यादि ॥
विदिक्रियाकर्मत्वे विधेयक्रियाकर्मत्वस्य चावसरः स्यादित्याह -
भवति विधेरवसर इति ।