पञ्चपादिका
वक्तव्यकाशिका
 
आह सोऽयं शान्तिकर्मणि वेतालोदयः ब्रह्मणः क्रियानुप्रवेशं निराकर्तुं ज्ञानक्रियाया अपि विषयत्वं निराकुर्वता तत एव शास्त्रयोनित्वमपि निराकृतमेव, तदाह — अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेदिति ॥ अत्रोत्तरं — नाविद्याकल्पितेत्यादि ॥ शास्त्रं हि सोऽयमित्यादिलौकिकवाक्यवद् ब्रह्मणि प्रमाणम् । तथाहि सोऽयमिति देशकालभेधोपाधिप्रविलयेनाभेदोऽवगम्यते । तथा त्वम्पदार्थोऽप्यात्मानमहंरूपं मन्यमानस्तत्त्वमसिवाक्यात्तत्पदार्थैकतामुपगच्छन् सोऽयमितिवदहमात्मकेदमंशोपाधिकृतवेद्यवेदितवेदनात्मकप्रपञ्चेनार्थात्प्रलीयमानेनावच्छिद्यविच्छिद्यमानानिदम्प्रकाशः प्रमाणफलं दर्शितः । तदप्यवच्छेदकविनाशे तदैव विजहन्निर्विशेषतामापद्यते । तेन प्रमाणादिचतुष्टयस्य युगपत्प्रलयेऽपि तदवच्छेदानुभवफलं वाक्यनिबन्धनम् । अतो वेदैकगोचरो निर्वाणमिति वेदविदः प्रतिपेदिरे । तथा चैवंविधस्य प्रमाणव्यापारस्य प्रकाशकामन्त्रब्राह्मणवादा भाष्ये दर्शिताः । एवं च नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषः । यस्य तूत्पाद्यो मोक्ष इत्यादिना तस्माद् ज्ञानमेकं मुक्त्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यते इत्यन्तेन भाष्येण अविद्यानिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणं मोक्षं विहाय क्रियानुप्रवेशं कल्पयतोऽपि न तस्य तत्र सम्भव इति दर्शितम् । कथम् ? यदि तावदुत्पाद्यो विकार्यो वा मोक्षः ? तदा यद्यपि क्रियानुप्रवेशो युक्तः ; तथापि मोक्षस्य ध्रुवमनित्यत्वमित्युक्तं ‘न कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि’त्यादि भाष्येण । अथानित्यत्वपरिहाराय स्थितस्यैवाऽऽप्यत्वमुच्यते, तदपि न ; आत्मस्वरूपस्य क्रियापूर्वकाप्यत्वानुपपत्तेः ।
अत्रोत्तरं नाविद्याकल्पितेत्याकल्पितेत्वादि इतिदीति ; शास्त्रं हीति ; तथा हीति ; तथा च त्वम्पदार्थ इति ; तत्पदार्थैकतामुपगच्छन्निति ; अहमात्मकेदमंशोपाधिकृत इति ; अर्थादिति ; अविच्छिद्यमानानिदंइदं प्रकाश इतिप्रकाशः प्रमाणफलमिति ; अवच्छेदकअवच्छेदकनिवृत्तेत्या इतिनिवृत्त्योः पूर्वोत्तरक्षणतया विरोधाभावादिति ; तदपीति ; तेन प्रमात्रादिचतुष्टयस्येति ; तथा चैवंविधस्येति ; न हि प्रकाशगुणे पुनः प्रकाशगुणोदय इति ; एवं च नित्यमुक्त इति ; न तत्र तस्य सम्भव इति ; कथमिति ; `न, कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि'त्यादिनानामकर्मेति ; यदि तावदुत्पाद्य इत्यादिनाइत्यादिनामेति ; अथानित्यत्वपरिहारायेति ; तदपि नेति ;

स्वयम्प्रकाशमानतया स्वविषयप्रकाशजननानपेक्षस्यापि ब्रह्मणः शास्त्रजन्यज्ञानाकारतया तद्व्यावर्तकस्याविद्यास्यापीत्यादीतिदिदोषनिवृत्तिफलवत्तया शास्त्रप्रमेयं ब्रह्मेति प्रतिपादयति -

अत्रोत्तरं नाविद्याकल्पितेत्याकल्पितेत्वादि इतिदीति ।

नन्वनधिगतार्थप्रकाशनमन्तरेण न प्रमाणव्यापारस्य फलवत्तेति, अत्राह -

शास्त्रं हीति ।

ननु तत्र वा विषयावगतिमन्तरेण कथं निवृत्तिमात्रेण प्रमाणव्यापार इति अत आह -

तथा हीति ।

उक्तमेतद्देवदत्तैक्यस्य अभिज्ञायामेव सिद्धत्वात् तदाकारेण प्रत्यभिज्ञासामग्रीवाक्याभ्यामुपजनितेन ज्ञानेनोपाधिपरिकल्पितभेदनिरासेन प्रत्यभिज्ञासामग्रीवाक्ययोः प्रामाण्यमिति ।

ननु ब्रह्मात्मनि विपर्ययाभावात् न तन्निरासेनापि प्रामाण्यमित्यतअथेति आह -

तथा च त्वम्पदार्थ इति ।

केन तर्हि प्रमाणाकारेण विपर्यासनिरास इति तदाह -

तत्पदार्थैकतामुपगच्छन्निति ।

तत्त्वम्‌पदाभ्यां लक्ष्यमाणं ब्रह्मात्मैब्रह्मात्वकत्वमितिकत्वं विज्ञानाकार इत्यर्थः ।

किं तर्हि तदाकारज्ञानेन निवर्त्यत इति तदाह -

अहमात्मकेदमंशोपाधिकृत इति ।

प्रमाणव्यापारे विषयाविषयेति द्विवारं दृश्यतेकारोदय एव, प्रमीयमाणवस्तुसामर्थ्यात् विपर्यासनिरास इत्याह -

अर्थादिति ।

ननु ज्ञातृसमवायिनी ज्ञेयाकारा संवित् प्रमाणफलम् , अनेन न विपर्यासो निरस्यते, प्रकाशस्यैवाप्रकाशविरोधित्वात् , नित्ये च चैतन्यप्रकाशे न प्रमाणफलमस्तीत्यत आह -

अविच्छिद्यमानानिदंइदं प्रकाश इतिप्रकाशः प्रमाणफलमिति ।

प्रमाणेन विषयीकृतार्थगतं चैतन्यं प्रमाणफलमुच्यते, न प्रमाणजन्यं, लोकेऽप्यजन्यत्वात् । अतः प्रमातृप्रमाणप्रमेयावच्छिन्नचैतन्यं प्रमात्रादि निवर्तयति ।

अवच्छेदकअवच्छेदकनिवृत्तेत्या इतिनिवृत्त्योः पूर्वोत्तरक्षणतया विरोधाभावादिति ।

ननु फलं चेन्निवर्तकं निवर्त्यानन्तर्भूतत्वात् तर्हि फलं यावत्कालमेव स्थास्यतीतिस्यास्यतीति नेत्याह -

तदपीति ।

फलरूपमपीत्यर्थः ।

ननु शास्त्रजन्यज्ञानेन न प्रकाश्यते चेत् ब्रह्म न शास्त्रगम्यं स्यादित्यत आह -

तेन प्रमात्रादिचतुष्टयस्येति ।

ननु किमित्यविद्यानिवृत्तिरेव प्रमाणफलमुच्यते, विषयप्रकाशोऽपि प्रमाणफलमुच्यतामिति, तत्राह -

तथा चैवंविधस्येति ।

`अविज्ञातं विजानताम्केनो० २ - ३’ ‘यतो वाचो निवर्तन्त'तै० २ - ४ इत्यादि ।

ननु ‘मनसैवानुद्रष्टव्यम्'बॄ० ४ - ४ - १९६ ‘तं त्वौपनिषदं पुरुषम्बृ० ३ - ९ - २६’ इति च ज्ञानक्रियाकर्मत्वमपि च श्रूयते । नैष दोषः, वेदान्तजनितापरोक्षज्ञानस्याकारसमर्पकतया व्यावर्तकत्वं शास्त्रप्रमेयत्वं नाम, ज्ञानजन्यप्रकाशातिशयशून्यत्वमविषयता नामेति व्यवस्थोपपत्तेः ।

न हि प्रकाशगुणे पुनः प्रकाशगुणोदय इति ।

नन्वविद्यानिवृत्तेरपिपरिज्ञानेति ज्ञानसाध्यत्वात् मोक्षस्यानित्यतेति, नेत्याह -

एवं च नित्यमुक्त इति ।

न तत्र तस्य सम्भव इति ।

ब्रह्मणि क्रियानुप्रवेशस्यअनुप्रवेशस्यामिति न सम्भव इत्यर्थः ।

ब्रह्मणोऽपि कारककारणत्वेतित्वसम्भवात् कथं न सम्भवति क्रियेत्याह -

कथमिति ।

यागादिवत् कर्तृसमवेतापूर्वसाध्यमोक्षाय ज्ञानं विधीयत इति पक्षो निरस्तः,

`न, कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि'त्यादिनानामकर्मेति ।

कर्मब्रह्मेत्यारभ्य - इत्यादिनेतिपर्यन्तं द्विवारं दृश्यतेकर्मकारकातिशयरूपमोक्षाय ज्ञानविधिरिति पक्षमिदानीं दूषयति -

यदि तावदुत्पाद्य इत्यादिनाइत्यादिनामेति ।

कर्मकारकातिशयरूपमोक्षपक्षेऽपि उत्पाद्यत्वकार्यत्वपक्षयोः प्रागुक्तफलवैलक्षण्यदूषणं समानमित्यर्थः ।

तर्ह्याप्यत्वंआप्त्यत्वमिति क्रियासाध्यमिति शङ्कते -

अथानित्यत्वपरिहारायेति ।

ब्रह्म प्रत्यगात्मभूतं व्यतिरिक्तं वा व्यतिरेकेऽपि सर्वगतं प्रदेशान्तरगतं वेति विकल्प्य दूषयति -

तदपि नेति ।