स्वयम्प्रकाशमानतया स्वविषयप्रकाशजननानपेक्षस्यापि ब्रह्मणः शास्त्रजन्यज्ञानाकारतया तद्व्यावर्तकस्याविद्यास्यापीत्यादीतिदिदोषनिवृत्तिफलवत्तया शास्त्रप्रमेयं ब्रह्मेति प्रतिपादयति -
अत्रोत्तरं नाविद्याकल्पितेत्याकल्पितेत्वादि इतिदीति ।
नन्वनधिगतार्थप्रकाशनमन्तरेण न प्रमाणव्यापारस्य फलवत्तेति, अत्राह -
शास्त्रं हीति ।
ननु तत्र वा विषयावगतिमन्तरेण कथं निवृत्तिमात्रेण प्रमाणव्यापार इति अत आह -
तथा हीति ।
उक्तमेतद्देवदत्तैक्यस्य अभिज्ञायामेव सिद्धत्वात् तदाकारेण प्रत्यभिज्ञासामग्रीवाक्याभ्यामुपजनितेन ज्ञानेनोपाधिपरिकल्पितभेदनिरासेन प्रत्यभिज्ञासामग्रीवाक्ययोः प्रामाण्यमिति ।
ननु ब्रह्मात्मनि विपर्ययाभावात् न तन्निरासेनापि प्रामाण्यमित्यतअथेति आह -
तथा च त्वम्पदार्थ इति ।
केन तर्हि प्रमाणाकारेण विपर्यासनिरास इति तदाह -
तत्पदार्थैकतामुपगच्छन्निति ।
तत्त्वम्पदाभ्यां लक्ष्यमाणं ब्रह्मात्मैब्रह्मात्वकत्वमितिकत्वं विज्ञानाकार इत्यर्थः ।
किं तर्हि तदाकारज्ञानेन निवर्त्यत इति तदाह -
अहमात्मकेदमंशोपाधिकृत इति ।
प्रमाणव्यापारे विषयाविषयेति द्विवारं दृश्यतेकारोदय एव, प्रमीयमाणवस्तुसामर्थ्यात् विपर्यासनिरास इत्याह -
अर्थादिति ।
ननु ज्ञातृसमवायिनी ज्ञेयाकारा संवित् प्रमाणफलम् , अनेन न विपर्यासो निरस्यते, प्रकाशस्यैवाप्रकाशविरोधित्वात् , नित्ये च चैतन्यप्रकाशे न प्रमाणफलमस्तीत्यत आह -
अविच्छिद्यमानानिदंइदं प्रकाश इतिप्रकाशः प्रमाणफलमिति ।
प्रमाणेन विषयीकृतार्थगतं चैतन्यं प्रमाणफलमुच्यते, न प्रमाणजन्यं, लोकेऽप्यजन्यत्वात् । अतः प्रमातृप्रमाणप्रमेयावच्छिन्नचैतन्यं प्रमात्रादि निवर्तयति ।
अवच्छेदकअवच्छेदकनिवृत्तेत्या इतिनिवृत्त्योः पूर्वोत्तरक्षणतया विरोधाभावादिति ।
ननु फलं चेन्निवर्तकं निवर्त्यानन्तर्भूतत्वात् तर्हि फलं यावत्कालमेव स्थास्यतीतिस्यास्यतीति नेत्याह -
तदपीति ।
फलरूपमपीत्यर्थः ।
ननु शास्त्रजन्यज्ञानेन न प्रकाश्यते चेत् ब्रह्म न शास्त्रगम्यं स्यादित्यत आह -
तेन प्रमात्रादिचतुष्टयस्येति ।
ननु किमित्यविद्यानिवृत्तिरेव प्रमाणफलमुच्यते, विषयप्रकाशोऽपि प्रमाणफलमुच्यतामिति, तत्राह -
तथा चैवंविधस्येति ।
`अविज्ञातं विजानताम्केनो० २ - ३’ ‘यतो वाचो निवर्तन्त'तै० २ - ४ इत्यादि ।
ननु ‘मनसैवानुद्रष्टव्यम्'बॄ० ४ - ४ - १९६ ‘तं त्वौपनिषदं पुरुषम्बृ० ३ - ९ - २६’ इति च ज्ञानक्रियाकर्मत्वमपि च श्रूयते । नैष दोषः, वेदान्तजनितापरोक्षज्ञानस्याकारसमर्पकतया व्यावर्तकत्वं शास्त्रप्रमेयत्वं नाम, ज्ञानजन्यप्रकाशातिशयशून्यत्वमविषयता नामेति व्यवस्थोपपत्तेः ।
न हि प्रकाशगुणे पुनः प्रकाशगुणोदय इति ।
नन्वविद्यानिवृत्तेरपिपरिज्ञानेति ज्ञानसाध्यत्वात् मोक्षस्यानित्यतेति, नेत्याह -
एवं च नित्यमुक्त इति ।
न तत्र तस्य सम्भव इति ।
ब्रह्मणि क्रियानुप्रवेशस्यअनुप्रवेशस्यामिति न सम्भव इत्यर्थः ।
ब्रह्मणोऽपि कारककारणत्वेतित्वसम्भवात् कथं न सम्भवति क्रियेत्याह -
कथमिति ।
यागादिवत् कर्तृसमवेतापूर्वसाध्यमोक्षाय ज्ञानं विधीयत इति पक्षो निरस्तः,
`न, कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि'त्यादिनानामकर्मेति ।
कर्मब्रह्मेत्यारभ्य - इत्यादिनेतिपर्यन्तं द्विवारं दृश्यतेकर्मकारकातिशयरूपमोक्षाय ज्ञानविधिरिति पक्षमिदानीं दूषयति -
यदि तावदुत्पाद्य इत्यादिनाइत्यादिनामेति ।
कर्मकारकातिशयरूपमोक्षपक्षेऽपि उत्पाद्यत्वकार्यत्वपक्षयोः प्रागुक्तफलवैलक्षण्यदूषणं समानमित्यर्थः ।
तर्ह्याप्यत्वंआप्त्यत्वमिति क्रियासाध्यमिति शङ्कते -
अथानित्यत्वपरिहारायेति ।
ब्रह्म प्रत्यगात्मभूतं व्यतिरिक्तं वा व्यतिरेकेऽपि सर्वगतं प्रदेशान्तरगतं वेति विकल्प्य दूषयति -
तदपि नेति ।