पञ्चपादिका
वक्तव्यकाशिका
 

आह सोऽयं शान्तिकर्मणि वेतालोदयः ब्रह्मणः क्रियानुप्रवेशं निराकर्तुं ज्ञानक्रियाया अपि विषयत्वं निराकुर्वता तत एव शास्त्रयोनित्वमपि निराकृतमेव, तदाह

अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेदिति

अत्रोत्तरं

नाविद्याकल्पितेत्यादि

शास्त्रं हि सोऽयमित्यादिलौकिकवाक्यवद् ब्रह्मणि प्रमाणम्तथाहि सोऽयमिति देशकालभेधोपाधिप्रविलयेनाभेदोऽवगम्यतेतथा त्वम्पदार्थोऽप्यात्मानमहंरूपं मन्यमानस्तत्त्वमसिवाक्यात्तत्पदार्थैकतामुपगच्छन् सोऽयमितिवदहमात्मकेदमंशोपाधिकृतवेद्यवेदितवेदनात्मकप्रपञ्चेनार्थात्प्रलीयमानेनावच्छिद्यविच्छिद्यमानानिदम्प्रकाशः प्रमाणफलं दर्शितःतदप्यवच्छेदकविनाशे तदैव विजहन्निर्विशेषतामापद्यतेतेन प्रमाणादिचतुष्टयस्य युगपत्प्रलयेऽपि तदवच्छेदानुभवफलं वाक्यनिबन्धनम्अतो वेदैकगोचरो निर्वाणमिति वेदविदः प्रतिपेदिरेतथा चैवंविधस्य प्रमाणव्यापारस्य प्रकाशकामन्त्रब्राह्मणवादा भाष्ये दर्शिताःएवं नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषः

यस्य तूत्पाद्यो मोक्ष इत्यादिना तस्माद् ज्ञानमेकं मुक्त्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यते इत्यन्तेन भाष्येण

अविद्यानिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणं मोक्षं विहाय क्रियानुप्रवेशं कल्पयतोऽपि तस्य तत्र सम्भव इति दर्शितम्कथम् ? यदि तावदुत्पाद्यो विकार्यो वा मोक्षः ? तदा यद्यपि क्रियानुप्रवेशो युक्तः ; तथापि मोक्षस्य ध्रुवमनित्यत्वमित्युक्तं कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि’त्यादि भाष्येणअथानित्यत्वपरिहाराय स्थितस्यैवाऽऽप्यत्वमुच्यते, तदपि ; आत्मस्वरूपस्य क्रियापूर्वकाप्यत्वानुपपत्तेः

अत्रोत्तरं नाविद्याकल्पितेत्याकल्पितेत्वादि इतिदीति ; शास्त्रं हीति ; तथा हीति ; तथा च त्वम्पदार्थ इति ; तत्पदार्थैकतामुपगच्छन्निति ; अहमात्मकेदमंशोपाधिकृत इति ; अर्थादिति ; अविच्छिद्यमानानिदंइदं प्रकाश इतिप्रकाशः प्रमाणफलमिति ; अवच्छेदकअवच्छेदकनिवृत्तेत्या इतिनिवृत्त्योः पूर्वोत्तरक्षणतया विरोधाभावादिति ; तदपीति ; तेन प्रमात्रादिचतुष्टयस्येति ; तथा चैवंविधस्येति ; न हि प्रकाशगुणे पुनः प्रकाशगुणोदय इति ; एवं च नित्यमुक्त इति ; न तत्र तस्य सम्भव इति ; कथमिति ; `न, कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि'त्यादिनानामकर्मेति ; यदि तावदुत्पाद्य इत्यादिनाइत्यादिनामेति ; अथानित्यत्वपरिहारायेति ; तदपि नेति ;

स्वयम्प्रकाशमानतया स्वविषयप्रकाशजननानपेक्षस्यापि ब्रह्मणः शास्त्रजन्यज्ञानाकारतया तद्व्यावर्तकस्याविद्यास्यापीत्यादीतिदिदोषनिवृत्तिफलवत्तया शास्त्रप्रमेयं ब्रह्मेति प्रतिपादयति -

अत्रोत्तरं नाविद्याकल्पितेत्याकल्पितेत्वादि इतिदीति ।

नन्वनधिगतार्थप्रकाशनमन्तरेण न प्रमाणव्यापारस्य फलवत्तेति, अत्राह -

शास्त्रं हीति ।

ननु तत्र वा विषयावगतिमन्तरेण कथं निवृत्तिमात्रेण प्रमाणव्यापार इति अत आह -

तथा हीति ।

उक्तमेतद्देवदत्तैक्यस्य अभिज्ञायामेव सिद्धत्वात् तदाकारेण प्रत्यभिज्ञासामग्रीवाक्याभ्यामुपजनितेन ज्ञानेनोपाधिपरिकल्पितभेदनिरासेन प्रत्यभिज्ञासामग्रीवाक्ययोः प्रामाण्यमिति ।

ननु ब्रह्मात्मनि विपर्ययाभावात् न तन्निरासेनापि प्रामाण्यमित्यतअथेति आह -

तथा च त्वम्पदार्थ इति ।

केन तर्हि प्रमाणाकारेण विपर्यासनिरास इति तदाह -

तत्पदार्थैकतामुपगच्छन्निति ।

तत्त्वम्‌पदाभ्यां लक्ष्यमाणं ब्रह्मात्मैब्रह्मात्वकत्वमितिकत्वं विज्ञानाकार इत्यर्थः ।

किं तर्हि तदाकारज्ञानेन निवर्त्यत इति तदाह -

अहमात्मकेदमंशोपाधिकृत इति ।

प्रमाणव्यापारे विषयाविषयेति द्विवारं दृश्यतेकारोदय एव, प्रमीयमाणवस्तुसामर्थ्यात् विपर्यासनिरास इत्याह -

अर्थादिति ।

ननु ज्ञातृसमवायिनी ज्ञेयाकारा संवित् प्रमाणफलम् , अनेन न विपर्यासो निरस्यते, प्रकाशस्यैवाप्रकाशविरोधित्वात् , नित्ये च चैतन्यप्रकाशे न प्रमाणफलमस्तीत्यत आह -

अविच्छिद्यमानानिदंइदं प्रकाश इतिप्रकाशः प्रमाणफलमिति ।

प्रमाणेन विषयीकृतार्थगतं चैतन्यं प्रमाणफलमुच्यते, न प्रमाणजन्यं, लोकेऽप्यजन्यत्वात् । अतः प्रमातृप्रमाणप्रमेयावच्छिन्नचैतन्यं प्रमात्रादि निवर्तयति ।

अवच्छेदकअवच्छेदकनिवृत्तेत्या इतिनिवृत्त्योः पूर्वोत्तरक्षणतया विरोधाभावादिति ।

ननु फलं चेन्निवर्तकं निवर्त्यानन्तर्भूतत्वात् तर्हि फलं यावत्कालमेव स्थास्यतीतिस्यास्यतीति नेत्याह -

तदपीति ।

फलरूपमपीत्यर्थः ।

ननु शास्त्रजन्यज्ञानेन न प्रकाश्यते चेत् ब्रह्म न शास्त्रगम्यं स्यादित्यत आह -

तेन प्रमात्रादिचतुष्टयस्येति ।

ननु किमित्यविद्यानिवृत्तिरेव प्रमाणफलमुच्यते, विषयप्रकाशोऽपि प्रमाणफलमुच्यतामिति, तत्राह -

तथा चैवंविधस्येति ।

`अविज्ञातं विजानताम्केनो० २ - ३’ ‘यतो वाचो निवर्तन्त'तै० २ - ४ इत्यादि ।

ननु ‘मनसैवानुद्रष्टव्यम्'बॄ० ४ - ४ - १९६ ‘तं त्वौपनिषदं पुरुषम्बृ० ३ - ९ - २६’ इति च ज्ञानक्रियाकर्मत्वमपि च श्रूयते । नैष दोषः, वेदान्तजनितापरोक्षज्ञानस्याकारसमर्पकतया व्यावर्तकत्वं शास्त्रप्रमेयत्वं नाम, ज्ञानजन्यप्रकाशातिशयशून्यत्वमविषयता नामेति व्यवस्थोपपत्तेः ।

न हि प्रकाशगुणे पुनः प्रकाशगुणोदय इति ।

नन्वविद्यानिवृत्तेरपिपरिज्ञानेति ज्ञानसाध्यत्वात् मोक्षस्यानित्यतेति, नेत्याह -

एवं च नित्यमुक्त इति ।

न तत्र तस्य सम्भव इति ।

ब्रह्मणि क्रियानुप्रवेशस्यअनुप्रवेशस्यामिति न सम्भव इत्यर्थः ।

ब्रह्मणोऽपि कारककारणत्वेतित्वसम्भवात् कथं न सम्भवति क्रियेत्याह -

कथमिति ।

यागादिवत् कर्तृसमवेतापूर्वसाध्यमोक्षाय ज्ञानं विधीयत इति पक्षो निरस्तः,

`न, कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि'त्यादिनानामकर्मेति ।

कर्मब्रह्मेत्यारभ्य - इत्यादिनेतिपर्यन्तं द्विवारं दृश्यतेकर्मकारकातिशयरूपमोक्षाय ज्ञानविधिरिति पक्षमिदानीं दूषयति -

यदि तावदुत्पाद्य इत्यादिनाइत्यादिनामेति ।

कर्मकारकातिशयरूपमोक्षपक्षेऽपि उत्पाद्यत्वकार्यत्वपक्षयोः प्रागुक्तफलवैलक्षण्यदूषणं समानमित्यर्थः ।

तर्ह्याप्यत्वंआप्त्यत्वमिति क्रियासाध्यमिति शङ्कते -

अथानित्यत्वपरिहारायेति ।

ब्रह्म प्रत्यगात्मभूतं व्यतिरिक्तं वा व्यतिरेकेऽपि सर्वगतं प्रदेशान्तरगतं वेति विकल्प्य दूषयति -

तदपि नेति ।