विकारास्पृष्टस्यापि सर्वगतत्वसम्भवात् न प्रदेशवर्तित्वमित्याह -
न, विकारदेशेऽपीति ।
तादात्म्यापत्तिरैक्यापत्तिरित्यर्थः ।
स्वेनैव रूपेणेति ।
देहादिभ्यो विलक्षणविलक्षणमितिस्वीयाणुरूपेणेत्यर्थः ।
स्वरूपनाश इति ।
अणुरूपे स्थिते ब्रह्मैक्यायोगादणुरूपस्य नाशः स्यादित्यर्थः ।
क्रियया वास्तवमूलरूपतिरोधाननिरासेन विद्यमानब्रह्मभावस्याभिव्यक्तिः संस्कार इति शङ्कते -
अथ विद्यमानस्येति ।
आदर्शस्येवेति ।
आदर्शस्य विद्यमानभास्वरत्वस्याभिव्यक्तिरिवेत्यर्थः ।
किमात्मगतक्रिययाक्रियाया इति मलापनयनं किं वा अन्याश्रययेति विकल्प्य दूषयति -
आत्मनः क्रियारहितत्वादिति ।
निरवयवत्वेन परिस्पन्दपरिणामरहितत्वादित्यर्थः । अन्याश्रयत्वेतिअन्याश्रयायाः कर्मत्वमात्मनो नास्ति, प्रत्यग्रूपत्वादिति योजना ।